________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
अगृह्य यदि गच्छामि, पुनः सुषेणं प्रष्टुमिति भावः। दोषः लक्ष्मणहानिरूपः। वैकव्यं निष्पौरुषत्वम् । अन्ते इतिकरणेन पूर्वमन्वयः कार्यः॥२५-२७॥इति । सञ्चिन्त्येत्यादिलोकद्वयमेकान्वयम् । समतोलयत उदक्षिपत् ॥२८-३०॥ रामानु०-'लक्ष्मणाय ददी नस्य सुषेणः परमौषधम' इत्येतत्प्रकारेण इन्द्रजियुद्ध शल्पपीडितानां
अगृह्य यदि गच्छामि विशल्यकरणीमहम् । कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ॥२७॥ इति सश्चिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः । आसाद्य पर्वत श्रेष्टं त्रिःप्रकम्प्य गिरेः शिरः ॥२८॥ फुल्लनानातरुगणं समुत्पाट्य महाबलः । गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ॥ २९॥ स नीलमिव जीमूतं तोयपूर्ण नभस्स्थलात् । आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः ॥३०॥ समागम्य महावेगः संन्यस्य शिखरं गिरेः । विश्रम्य किञ्चि द्धनुमान सुषेणमिदमब्रवीत् ॥३३॥ ओषधिं नावगच्छामितामहं हरिपुङ्गव । तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ॥ ३२॥ एवं कथयमानं तं प्रशस्य पवनात्मजम्। सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ॥ ३३ ॥ विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः । दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ॥ ३४॥ ततः संक्षोदयित्वा तामोषधी वानरोत्तमः । लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ॥ ३५॥ सशल्यस्ता समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥ ३६॥ तमुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् ।
साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥ ३७ ॥ लक्ष्मणादीनां चिकित्सां कृतवता संगृहीतोषधेन मुषेणेन, सौम्य शीत्रमितो गत्वा शैलमोपधिपर्वतमिति हनुमत्प्रेषणमनुपपन्नमिव प्रतीयते । अत्र लक्ष्मणविभीषणादिचिकित्सायामोषधिजातं सर्व विनियुक्तमिति परिहारस्य वक्तुं शक्यत्वेऽपि अविस्मरणशीलस्य हनुमतः स्वेनैवाचिरस्थापितपर्वतविषयकं प्रतणावगच्छामीत्यभिधानम्, त्रिः प्रकम्प्योत्पाटनं च विरुद्धमिव प्रतीयते ।। अत्र परिहारो विद्वद्भिश्चिन्तनीयः ॥ २८ ॥ समागम्येति । संन्यस्य सेनामध्ये निक्षिप्य ॥ ३१-३८॥ भयगरछामि, मनामहर्षलिङ्गेन सुषेणयथार्थवाक्येन चात्र महौषधि जानामीत्यर्थः ॥ २६-४१॥
For Private And Personal Use Only