SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir U वा.रा.भ. टी.यु.का. सचराचराः लोकाःजनाः, समागम्य सङ्घीभूय, यथेदानी युद्धं प्रवर्तितं तथा यावत् भूमिरिष्यति, तावत्कालं सदा नित्यशः लोके यत्कर्म कथयिष्यन्ति, तत् कर्माद्य करिष्यामीत्यन्वयः ॥५७-६३॥ इति श्रीगोविन्द श्रीरामायणभूषगे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोत्तरशततमः सर्गः॥१०१ अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः । अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥५९॥ रामरावणमुक्तानामन्योन्य मभिनिघ्नताम् । शराणां च शराणां च बभूव तुमुलः स्वनः ॥ ६० ॥ ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः । अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ६ ॥ तयोातलनिर्घोषो रामरावणयोर्महान् । त्रासनः सर्वभूतानां संबभूवाद्धृतोपमः ॥६२॥ स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मताऽदितः । भयात् प्रदुद्राव समेत्य रावणो यथाऽनिलेनाभिहतो बलाहकः ॥ ६३ ॥ इत्या. श्रीमयुद्धकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥ शत्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ॥१॥ स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः । विसृजन्नेव वाणौघान सुषेणं वाक्यमब्रवीत् ॥२॥ एष रावणवीर्येण लक्ष्मणः पतितः क्षिती। सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ ३॥ शोणितामिमं वीरं प्राणैरिष्टतमं मम । पश्यतो मम का शक्ति योद्धं पयोकुलात्मनः ॥ ४॥ अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पश्चत्वमापन्नःप्राणमें किं सुखेन च॥५॥ लज्जतीव हि मे वीर्य भ्रश्यतीव कराद्धनुः । सायका व्यवसीदन्ति दृष्टिष्पिवशं गता । अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ॥६॥ चिन्ता मे वर्धते तीवा मुमूर्षा चोपजायते ॥७॥ Neअथ लक्ष्मणसञ्जीवनं द्विशततमे-शक्त्या विनिहतमित्यादिश्लोकद्वयमेकं वाक्यम् । विसृजन्नेवेत्यादिवर्तमाननिर्देशेन रावणपलायनानन्तरं लक्ष्मणयोग क्षेमानुसन्धाने अविलम्बः मूचितः ॥ १॥२॥ एष इति । उदीरयन् जनयन् ॥ ३॥ शोणितामिति । प्राणः प्राणेभ्यः॥४॥५॥ लज्जतीवेत्यादि। यथा लोके कथयिष्यन्ति तथा तत्कर्म करिष्यामीति सम्बन्धः ॥ ५७-६३ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायाम एकोत्तरशततमः सर्गः ॥ १.१॥१॥२॥ एष इति । शोकमुदीरयन् जनयन् ॥ ३ ॥४॥ प्राणः प्राणेभ्यः॥५॥ लज्जतीति परस्मैपदमार्षम् ॥ ६॥७॥ I N३.०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy