SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir सार्धोक एकान्वयः । वध्यतामिति प्राप्तकाले लोट । स्तोककस्य चातकस्य । “स्तोककश्चातकः समाः" इत्यमरः ।। ४८॥ अस्मिन्मुहूर्ते तत्रापि नचिराद्रक्ष्यथेत्यन्वयः॥ १९॥राज्यनाशमित्यादिश्लोकद्वयमेकान्वयम् । प्राप्त पम्पोपवनादौ । क्वेशं लक्ष्मणप्रहरणजन्यम् ॥१०॥५१॥ यदमित्यादि अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः । अरावणमरामं वा जगदक्ष्यथ वानराः ॥ ४९ ॥ राज्यनाशं वने वासं दण्डके परिधावनम् । वैदेह्याश्च परामर्श रक्षोभिश्च समागमम् ॥५०॥ प्राप्तं दुःखं महद्घोरं केशं च निरयो पमम् । अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥५॥ यदर्थ वानरं सैन्यं समानीतमिदं मया । सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥५२॥ यदर्थ सागरः क्रान्तः सेतुर्बद्धश्च सागरे। सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥ ५३॥ चक्षुर्विषयमागम्य नायं जीवितुमर्हति । दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥५४॥ स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः । आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५५॥ अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे । त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥५६ ॥ अद्य कर्म करिष्यामि यल्लोकाः सचराचराः । सदेवाः कथयिष्यन्ति यावद्भमिर्धरिष्यति । समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ ५७ ॥ एवमुक्त्वा शित बाणैस्तप्तकाञ्चनभूषणैः । आजघान दशग्रीवं रणे रामः समाहितः ॥ ५८॥ पायोकत्रयमेकान्वयम् । दृष्टिं दृष्टिविषयम् । दृष्टौ विषं यस्यासी दृष्टिविषः तस्य । केचिद्धि सर्पाः दर्शनमात्रेण मनुष्यान् मारयन्तीति प्रसिद्धिः। ॥५२-५५॥ अयेति । रामवं जगदेकवीरत्वम् । आचार्यास्तु-गमावतारप्रयोजनमित्याहुः॥५६॥ अद्यत्यादिसाश्चोक एकान्वयः। सदेवाः। पास्तोककश्चातकस्समाः" इत्यमरः ॥ १८ ॥ प्रतिशृणोमि पतिजानामि ॥४५॥ राज्यनाशमित्यादि सार्यश्लोकमेकं वाक्यम् । राज्यनाशं राज्यनाशजनितं दुःखम। वने वासं बनवास जनितं दुःखम् । एवमुनरपि दुःखविशेषणानि । केशं च निरयोपनमतिजुगुप्सितं लक्ष्मणप्रहारजनितमित्यर्थः। ५०-५३ ॥ दृष्टिविषय सर्पस्य दृष्टि दृष्टिविषयं प्राप्तो जन इव अब जीविg मातीति सम्बन्ध: ५४॥५५॥ अमोनि। सपए रामवरमयतीति राम इति व्युत्पत्या पराक्रमेणापिरमयिदत्वमुच्यते lan५६ ॥ सदेवास्सचराचरा:लोका जनास्समागम्य सम्भूय मया प्रमितं युद्ध गुरूपं यत्कर्म यावाद्धभूमिधरिष्यति अषस्थास्यते तावन्तं कालं सदा नित्यशः For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy