________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कीर्यमाण इति । विमुखीकृतविक्रमः विमुखीकृतविभीषणविषयपराक्रमः॥२६॥२७॥ ते त्वया ॥२८॥ लोहितलक्षणारुधिरचिह्ना । अनेन पूर्वमपि Mबहुधा रिपवोऽनया हता इति व्यज्यते । लोहितलक्षणा सती यास्यतीति वा ।। २९-३२ ॥ तामिति । राघवः लक्ष्मणाय स्वस्त्यस्तु त्वं हतोबमा नष्ट
कीर्यमाणः शरौघेण विसृष्टेन महात्मना । स प्रहर्तु मनश्चक्रे विमुखीकृतविक्रमः ॥२६॥ मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः । लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥ मोक्षितस्ते बलश्लाधिन् यस्मादेवं विभी षणः। विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते॥२८॥ एषा ते हृदयं मित्त्वा शक्तिलोहितलक्षणा। मदाहु परिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥ इत्येवमुक्त्वा तां शक्तिमष्टघण्टा महास्वनाम् । मयेन मायाविहिता ममोर्चा शत्रुघातिनीम् ॥ ३०॥ लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा। रावणः परमबुद्धश्चिक्षेप च ननाद च ॥३१॥ सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना । शक्तिरभ्यपतद्वेगाल्लक्ष्मण रणमूर्धनि ॥३२॥ तामनुव्याहर च्छक्तिमापतन्ती स राघवः। स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा॥ ३३॥ रावणेन रणे शक्तिः क्रुद्धेना शीविषोपमा। मुक्ताऽऽशरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ॥ ३४ ॥ न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि । जिह्ववोरंगराजस्य दीप्यमाना महाद्युतिः॥३५॥ ततो रावणवेगेन सुदूरमवगाढया। शक्त्या निर्मिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३६॥ तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः । भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् । ३७॥ स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः । बभूव संरब्धतरो युगान्त इव पावकः ॥ ३८॥ इननोद्योगा मोघा भवेति तामनुव्याहरदित्यन्वयः ॥ ३३ ॥ क्षणात भस्मीकरणक्षमा शक्तिः रामेण मोचीकृता सती केवलमपतदित्याह-रावणेनेति । मुक्तेति । आशु उरसि अभीतस्येति पदानि । लक्ष्मणस्योरसि ममजेति सम्बन्धः ॥ ३४-३७ ॥ स मुहूर्तमिति । अनुध्याय तत्कालकर्तव्यं ५ महात्मना लक्ष्मणेन विमुखीकृतविक्रमः विमुखीकृतविभीषणविषयपराक्रम इत्यर्थः ॥ २६-२८॥षेति। लोहितलक्षणा शत्रुरुधिरचिहिता ॥२९-३२ ॥ तामिति ।
For Private And Personal Use Only