SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ She Mahavir Jain Aradhana Kendra www.kababirth.org Acharya Shri Kalassagarsen Gyanmandir दिवसरप्रतीक्ष इत्यर्थः । एवमव्याख्याने कथमन्येन युध्यमानमन्यो युध्येतेति महान् दोषः स्यात् ॥ १३ ॥ गृहीतानां सप्तवाणानां विनियोगप्रकारमाइ- बीयको वा.रा.भ. तैः सायकरित्यादिश्लोकत्रयेण । तैः सायकैरिति षष्ठयर्थे तृतीया । तेषां सायकानां मध्ये एकेन बाणेन ध्वजम्, एकेन बाणेन सारथिशिरः, पञ्चभि ४२९८॥ स.१०॥ तैःसायकैर्महावेगै रावणस्य महाद्युतिः। ध्वजं मनुष्यशीर्ष तु तस्य चिच्छेद नैकथा ॥ १४॥ सारथेश्चापि बाणेन शिरोज्वलितकुण्डलम् । जहार लक्ष्मणः श्रीमान नैर्ऋतस्य महाबलः॥ १५॥ तस्य बाणैश्च चिच्छेद धनुर्गजकरो पमम् ।लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः॥ १६॥ नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् । जघाना प्लुत्य गदया रावणस्य विभीषणः ॥ १७॥ हताश्वाद्वेगवान वेगादवप्लुत्य महारथात् । क्रोधमाहारयत्तीवं भ्रातरं प्रति रावणः ॥१८॥ ततः शक्तिं महाशक्तिीप्ता दीप्ताशनीमिव । विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥१९॥ अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः। अथोदतिष्ठत् सन्नादो वानराणां तदा रणे ॥२०॥ सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी। सविस्फुलिङ्गाज्वलिता महोल्केव दिवश्युता॥२१॥ ततःसम्भाविततरां कालेनापि दुरासदाम् । जग्राह विपुलां शक्ति दीप्यमानां स्वतेजसा ॥ २२ ॥ सा वेगिता बलवता रावणेन दुरासदा । जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥२३ ॥ एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् । प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥२४॥ तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः।रावणं शक्तिहस्तं वै शरवर्षेरवाकिरत् ॥२५॥ नुश्च चिच्छेदेत्यर्थः । निशितैः शरैरित्यत्र शरशब्दः काशदण्डविशेषमयत्वपरो बाणविशेषणम् ॥१४-१६॥ एवं धनुषि छिन्ने क्षणं तूष्णीं तिष्ठति रावणे विभीषणेन किंचित्कारमाह-नीलेति ॥ १७-२१॥ तत इति । सम्भाविततरां चन्दनादिभिरचिंताम् ॥ २२॥२३॥ एतस्मिन्निति । अभ्यव । पद्यत तमाच्छाद्य स्वयमतिष्ठदित्यर्थः ॥ २४ ॥२५॥ सा वेगितेति । दुरासदा दुस्सहा । वेगिता वेग प्रापिता ॥ २३ ॥ अभ्यवपद्यत विभीषणसमीपमागत इत्यर्थः ॥ २४ ॥२५॥ ॥२९८० For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy