________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
PASS
अथ लक्ष्मणस्य शक्त्या पतनम्-तस्मिन्नित्यादि । कोधाचास्त्रमनन्तरमित्यत्रापि चक्र इत्यनुपज्यते ॥ १॥ किं तदस्खमित्यपेक्षायामाह-मयेनेति । रोदं ददेवताकम् ॥२॥ ततः शूलानीत्यादिशोकद्वयमेकान्वयम् । कूटपाशाः कपटपाशाः ॥३-७॥ तैरिति । चन्द्रसूर्यग्रहेरिवेति । तत्समानाकारै तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः। क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥१॥ मयेन विहितं रौद्र मन्यदत्रं महाद्युतिः। उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ २॥ ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च। कामुकादीप्यमानानि वजसाराणि सर्वशः ॥३॥ मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा। निष्पेतुविविधा स्तीक्ष्णा वाता इव युगक्षये ॥ ४॥ तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः । जघान परमास्त्रेण गान्धर्वेण महा द्युतिः॥५॥ तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना। रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ॥६॥ तत श्चक्राणि निष्पेतुर्भास्वराणिमहान्ति च। कार्मुकादीमवेगस्य दशग्रीवस्य धीमतः ॥७॥ तैरासीगगनं दीप्तं सम्पतद्भि रितस्ततः । पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहेरिव ॥ ८॥ तानि चिच्छेद बाणोधैश्चक्राणि स तु राघवः । आयु धानि च चित्राणि रावणस्य चमूमुखे ॥९॥ तदत्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः। विव्याध दशभिर्बाणै राम सर्वेषु मर्मसु ॥ १० ॥ स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः । रावणेन महातेजा न प्राकम्पत राघवः ॥११॥ ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः । राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ॥ १२॥ एतस्मिन्नन्तरे क्रुद्धो
राघवस्यानुजो बली । लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥ १३॥ रित्यर्थः ॥ ८-१२॥ एतस्मिन्नन्तर इति । एवं रावणं प्रहत्य क्षणं रामे विश्राम्यति सतीत्यर्थः । लक्ष्मणः पूर्व युद्धे प्रवृत्तो मध्ये रामेण युद्धकरणा तस्मिन्निति । क्रोधाच्चानमनन्तरमित्यत्रापि चक्र इति क्रिया सम्बध्यते ॥ १॥ तत्किमनमत आइ-मयेनेति ॥ १-२२ ॥
For Private And Personal Use Only