________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. ॥२९७॥
रूपाणि भित्वा भूमि विविशुरिति योजना ॥ ३७-४० ॥ आसुरास्त्रं प्रपञ्चयति-सिंइत्यादिश्लोकचतुष्टयेन । लेलिहानान् सर्पान्, तदाकारानिति यावत् । श्वानटी .पु.को. शब्दोऽप्यस्ति । मकराशीविषाननानित्यत्र आशीविषशब्दः पञ्चास्यसपैतरसर्पपरः॥४१-४१॥ आसुरेणेति । पावकं पावकसम्बन्धि ॥१५॥ पावकानं .१.. सिंहव्याघ्रमुखांश्चान्यान् कङ्ककाकमुखानपि। गृध्रश्येनमुखांश्चापि शगालवदनांस्तथा ॥४१॥ ईहामृगमुखां श्वान्यान् व्यादितास्यान भयानकान् । पञ्चास्यान लेलिहानांश्च ससर्ज निशितान् शरान् ॥४२॥ शरान् खर मुखांश्चान्यान् वराहमुखसंस्थितान् । श्वानकुक्कुटवक्रांश्च मकराशीविषाननान् ॥ ४३ ॥ एतानन्यांश्च मायावी ससजे निशितान् शरान् । रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन ॥४४॥ आसुरेण समाविष्टः सोऽस्त्रेण रघु नन्दनः । ससर्जाखं महोत्साहः पावकं पावकोपमः॥४५॥ अग्निदीप्तमुखान् बाणान तथा सूर्यमुखानपि । चन्द्रार्ध चन्द्रवक्त्रांश्च धूमकेतुमुखानपि ॥४६॥ ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान् । विद्युजिह्वोपमांश्चान्यान् ससर्ज निशितान शरान् ॥४७॥ ते रावणशरा घोरा राघवास्त्रसमाहताः॥४८॥ विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥४९॥ तदत्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा । हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः। सुग्रीवप्रमुखा वीराः परिवार्य तुराघवम् ॥५०॥ ततस्तदनं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्मृतम् । मुदाऽन्वितो दाशरथि
महाहवे विनेदुरुचैमुदिताः कपीश्वराः॥५१॥ इत्यार्षे श्रीरामायणे० श्रीमद्युद्धकाण्डे शततमः सर्गः ॥१०॥ प्रपञ्चयति-अग्नीत्यादिचोकद्वयेन । महोल्कामुखसंस्थितान् महोल्कामुखेन वर्तमानान् । विद्युजिह्वोपमान् विद्युदर्चिःसदृशान् । “कणा जिह्वास्तथा । ऽर्चिषः” इति हलायुधः ॥१६-५०॥ तत इति । तत् प्रसिद्धम् । मुदाऽन्वितः, बभूवेति शेषः ॥५१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने शततमः सर्गः ॥१०॥ विद्युजिहोपमान विद्युदर्चिस्साशान् । “कणा जिह्वास्तथाऽधिपः" इति हलायुधः॥ ४७-५१ ॥ इति श्रीमहेन्चरतीर्थविरचितायो श्रीरामायणतस्वदीपिकाख्यायो युद्धकाण्डम्याख्यायां शततमः सर्गः ॥१०॥
For Private And Personal Use Only