________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kasagarsur Gyanmandir
www.kobatirth.org
तेनेव महता धनुर्वरेणावर्तितं श्रीरामदेहलावण्यामृतपूरमनवगाहमानस्य तस्य दौर्भाग्यं चोच्यते ॥ १३ ॥ १२॥ ततो राम इत्यादिसार्घ लोक एका न्वयः। हृष्टः चिराद्वैरी समागत इति सन्तुष्टः कार्मुकं जग्राह । विस्फारयितुमारेभ इत्यादि विलम्बोक्त्या किमिदानीमपि वा नतो भविष्यति रावण इति ।
ततो रामो महातेजाः सौमित्रिसहितो बली। वानरांश्च रणे भनानापतन्तं च रावणम् ॥ १३॥ समीक्ष्य राववो हृष्टो मध्ये जग्राह कार्मुकम् ॥ १४॥ विस्फारयितुमारेभे ततः स धनुरुत्तमम् । महावेगं महानादं निर्मिन्दनिव मेदिनीम् ॥ १५॥ रावणस्य च बाणौथै रामविस्फारितेन च । शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ १६ ॥ तयोःशरपथं प्राप्तो रावणो राजपुत्रयोः। स बभौ च यथा राहुः समीपे शशिमूर्ययोः॥१७॥ तमिच्छन् प्रथम योद्धं लक्ष्मणो निशितैः शरैः । मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १८॥ तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता । बाणान वाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १९॥ एकमेकेन बाणेन त्रिभित्रीन दशभि दश । लक्ष्मणस्य प्रचिच्छेद दर्शयन पाणिलाघवम् ॥२०॥ अभ्यतिक्रम्य सौमित्रिं रावणः समितिश्चयः ।
आससाद ततो रामं स्थितं शैलमिवाचलम् ॥२१॥ रामस्य दयालुतोच्यते ॥ १३-१५॥ रावणस्येति । रावणस्य बाणौधैः रामविस्फारितेन च जातेन शब्देनेत्यर्थः ॥ १६ ॥ रामानु-रावणस्येति । शब्देन राक्षसास्ते चेति पाठः । ते च वानराश्च ॥ १६॥ तयोरिति । शशिमूर्वयोरिति, अमायामिति शेषः॥१७-२०॥ रामानु०-तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः । स बभौ च यथा राहुः समीपे शशिसूर्ययोरिति । अतिकरस्वभावस्य रावणस्य रामलक्ष्मणयोः समीपागमनममावास्यायां राहोश्चन्द्रसूर्यसमीपागमनमिवेतिकृत्वा दृष्टान्तदान्तिकयोरैकरूप्यम् ॥१७॥ अभ्यतिक्रम्य एकस्यापि बाणस्य स्वस्मिन्नपतनादनादरेणातिक्रम्य ॥२१-२६ ॥ सीतापुष्पफलप्रदः तम, गत्वेत्यनुपज्यते । यस्य पक्षस्य ये सुग्रीवादयः शाखाः तान हन्तीति सम्बन्धः । शास्त्रारूपसुग्रीवादीन् हत्वा दुःखमपनेप्यामीत्यर्थः। ॥३-१५॥ रावणस्येति । रावणस्थ बाणोघेः रामविस्फारितेन च यशब्दो जनितः तेन पेतुरिति सम्बन्धः ॥ १६ ॥ तयोरशरपथमिति । सः रावणः । राज पुत्रयोस्समीपे शशिसूर्ययोस्समीपे राहुर्यथा तथा बभाविति सम्बन्धः । १७-२० ॥ अभ्यतिक्रम्येति । शैलमिवाचलम् अचलं स्थितं राममाप्ससाइति ।
For Private And Personal Use Only