________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चा.रा.भू..
॥२९५॥
स०१..
अथ रामरावणयुद्धारम्भः शततमे-महोदरेत्यादि । तस्मिन् विरूपाक्षे निहते सति पश्चान्महोदरमहापावों इतौ दृष्ट्वा, स्थितमिति शेषः ॥ १-८॥ रामानु रामवृक्षमिति । सीतापुष्पफलपदं सीता पुष्पं यस्य सः सीतापुष्पः सीतापुष्पश्वासी फलप्रदश्च तम् ॥ ४ ॥ उत्पपातेति । सहितुं सोढुम् । आर्ष इडागमः ॥९॥१०॥
महोदरमहापाची हतौ दृष्ट्वा तु राक्षसौ । तस्मिश्च निहते वीरे विरूपाक्षे महाबले । आविवेश महान् क्रोधो रावणं तं महामृधे ॥ १॥ सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ॥२॥ निहवानाममात्यानां रुखस्य नगरस्य च । दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणी ॥३॥ रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् । प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ॥४॥ मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः । हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः॥५॥स दिशो दश घोषेण रथस्यातिरथो महान् । नादयन् प्रययौ तूर्ण राघवं चाभ्यवर्तत ॥६॥ पूरिता तेन शब्देन सनदीगिरिकानना । संचचाल मही सर्वा सवराहमृगद्विपा ॥७॥ तामसं स महाघोरं चकारास्त्रं सुदारुणम् । निर्ददाह कपीन् सर्वास्ते प्रपेतुः समन्ततः ॥ ८॥ उत्पपात रजो घोर तैर्भः सम्प्रधावितैः। न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ ९॥ तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः । दृष्ट्वा भनानि शतशो राघवः पर्यवस्थितः॥ १०॥ ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् । स ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥११॥ लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा । आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः। पद्मपत्र विशालाक्षं दीर्घबाहुमरिन्दमम् ॥ १२॥ तत इत्यादिसार्धश्लोकदयेन रामस्यापराजितत्वं निरवधिकसौन्दयनिधित्वेन वैरं विहाय निरन्तरानुभाव्यत्वं रावणस्य दुर्बुद्धित्वम् अमृतप्रवाहमाव ॥२९५॥ ॥१॥२॥ निहतानामित्याविश्लोकायस्य मातीतिकार्थः स्पष्टः । वस्तुतस्तु-रामलक्ष्मणौ हत्वा गत्वा निहतानाममात्याना दुस्खपनेप्यामि । न तो गत्वा केन । प्रकारेण दुःखमपनेथ्यसीत्यत आह-रामवृक्षमिति । वृश्यतीति वृक्षः तम्, शत्रुसंहारकं राममित्यर्थः । सीतापुष्पफलप्रदं सीता पुष्पं यस्य सः स चासौ फलभवति ।
MARATH
For Private And Personal Use Only