________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
NON
तामात । तलधात प्रातादन तलसचनानिष्कल्मषम्, शैलसारमयं तद्वत्कठिनमित्यर्थः । दृढम् अशिथिलम् ॥१८॥१९॥ स वीर इति । आत्मन इत्यस्य पितुस्तुल्यपराक्रम इत्यनेन संबन्धः । संवर्तयत् समवर्तयत, प्रामयामासेत्यर्थः ॥२०-२३ ॥ वानराणामित्यादि । स्फोटयन् दलयन्
तं तैलधौतं विमलं शैलसारमयं दृढम् । राक्षसः परमबुद्धो वालिपुत्रे न्यपातयत् ॥ १८ ॥ तेन वामांसफलके भृशं प्रत्यवपादितम् । अङ्गदो मोक्षयामास सरोषः स परश्वधम् ॥ १९॥ स वीरो वचसङ्काशमङ्गदो मुष्टि मात्मनः। संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः॥२०॥ राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति। इन्द्रा शनिसमस्पर्श स मुष्टिं विन्यपातयत् ॥२१॥ तेन तस्य निपातेन राक्षसस्य महामृधे । पफाल हृदयं चाशु स पपात हतो भुवि ॥ २२ ॥ तस्मिन्निपतिते भूमौ तत् सैन्यं संप्रचुक्षुभे । अभवच्च महान् क्रोधः समरे रावणस्य तु ॥ २३ ॥ वानराणां च हृष्टानां सिंहनादश्च पुष्कलः । स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम ॥ २४ ॥ महेन्द्रेणेव देवानां नादः समभवन्महान् ॥ २५ ॥ अथेन्द्रशत्रुस्त्रिदिवालयानां वनौका चैव महाप्रणादम् । श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवतस्थे ॥२६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमद्युद्धकाण्डे एकोनशततमः सर्गः ॥ ९९॥ वानराणां च सिंहनादः समभवत्, महेन्द्रेण सह देवानां नाद इव वानराणां च देवानां च नादः समभवदित्यर्थः । एतच्चानन्तरश्लोके स्फुटीर भविष्यति ॥ २४-२६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनशततमः सर्गः॥ ९९॥ | स्थितस्य वधार्थ परिघं चिक्षेपेति सम्बन्धः ॥ १३-१९ ॥ स बीर इति । संवर्तयत् समवर्तयत् ॥ २०-२३ ॥ वानराणामित्यादि सार्धश्लोकमेकं वाक्यम् । इन्द्रेण सह देवाना नाद इव अङ्गदेन सहितानां वानराणां सिंहनादस्समभवत् ॥ २४-२६ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्याया। युद्धकाण्डव्याख्यायाम् एकोनशततमस्सर्गः ॥ ९९ ॥
For Private And Personal Use Only