________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥२९३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शयन् पाणिलाघवमिति शेषः ॥ १८-२० ॥ तत इति । भास्कराभासां भास्करवृद्धासमानाम् ॥ २१ ॥ गर्दा तामित्यादि । गदां दृद्वेति शेषः । ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः । ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ २१ ॥ गर्दा त सुमहाघोरामापतन्तीं महाबलः । सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे । आजवान गर्दा तस्य परिघेण हरीश्वरः ॥ २२ ॥ पपात स गदोद्भिन्नः परिवस्तस्य भूतले ॥ २३ ॥ ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् । आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ २४ ॥ स तमुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपदाम् । भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ २५ ॥ ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः । तेजोबलसमाविष्टो दीप्ताविव हुताशनौ ॥ २६ ॥ जन्नतुस्तौ तदाऽन्योन्यं नेदतुश्च पुनः पुनः । तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २७ ॥ उत्पेततुस्ततस्तूर्ण जन्नतुश्च परस्परम् । भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ । जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तप ॥ २८ ॥ आजहार ततः खड्गमदूरपरिवर्तिनम् । राक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥ २९ ॥ तथैव च महाखनं चर्मणा पतितं सह । जग्राह वानरश्रेष्ठः सुग्रीवो वगवत्तरः ॥ ३० ॥ तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् । उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥ ३१ ॥ दक्षिणं मण्डलं चोभौ सुतूर्ण सम्परीयतुः । अन्योन्यमभि संक्रुद्ध जये प्रणिहितावुभौ ॥ ३२ ॥
| समुद्यम्य परिषमिति सिद्धम् ॥२२॥ पपात स गदोद्भिन्त्र इत्यर्धम् । उभावपि परस्पराभिहतौ विशीर्णो पेततुरिति भावः॥२३-३१||दक्षिणं प्रदक्षिणम्, ततः क्रुद्ध इति । भास्कराभासां भास्करवद्भासमानाम् ॥ २१ ॥ सुमहाघोरां तां गदाम, दृद्वेति शेषः । समुद्यम्य, परिघमिति शेषः । सुग्रीवः परिघेण जबानेति सम्बन्धः ॥ २२ ॥ गदा पपात स परिधश्च उद्भिन्न इत्पर्यः ॥ २३ ॥ तत इत्यादिश्लोकद्वयमेकं वाक्यम् । स सुग्रीवः तं मुसलम् । सोऽपि महोदरोऽपि । अन्यां गर्दा व्याक्षिपत चिक्षेप ॥ २४-३१ ।। दक्षिणं प्रदक्षिणं चकारात्सव्यं च सुतूर्ण सम्परीयतुः अकुर्वाताम् ॥ ३२ ॥
For Private And Personal Use Only
टी.यु.क
स०९८
॥२९३॥