________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
स्येति संबन्धमात्रे षष्टी । भपिण्डस्य निर्देष्टुं स्वामिदत्तवेतनमपाकर्तुमित्यर्यः॥४-६॥ भर्तृवाक्येन चोदितः सन् स्खेन वीर्येण कदनं चक्र इत्यन्वयः । Kn७॥८॥ पाणिपादोरूनिति । एकवद्भावाभाव आपः॥९॥१०॥अनन्तरं समीपस्थम् ॥११-१३ ॥ रामचक्र समूहः ॥११॥१५॥17
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः। प्रविवेशारिसेना तो पतङ्ग इव पावकम् ॥ ६॥ ततः स कदनं चके वानराणां महाबलः। भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥७॥ वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः। प्रविश्यारिबलं भीमं जप्नुस्ते रजनीचरान् ॥ ८॥ महोदरस्तु संक्रुद्धः शरैः काञ्चनभूषणैः । चिच्छेद पाणिपादोरुन् वानराणां महाहवे ॥९॥ ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् । दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः॥१०॥ प्रभनां समरे दृष्ट्वा वानराणां महाचमूम् । अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥११॥ प्रगृह्य विपुला घोरां महीधरसमा शिलाम् । चिक्षेप च महातेजास्तधाय हरीश्वरः॥ १२ ॥ तामापतन्ती सहसा शिलां दृष्ट्वा महोदरः। असम्भ्रान्तस्ततो बाणैर्निबिभेद दुरासदाम् ॥ १३॥ रक्षसातेन बाणौनिकृत्ता सा सहस्रधा । निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ १४ ॥ तां तु भिन्ना शिलां दृष्ट्वा सुग्रीवः क्रोधमूञ्छितः । सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥१५॥ शरैश्च विददारैनं शूरः परपुरञ्जयः॥ १६ ॥ स ददर्श ततः क्रुद्धः परिषं पतितं भुवि ॥१७॥ आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् । परिघाग्रेण वेगेन जघानास्य हयोत्तमान ॥१८॥ तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात् । गदा जग्राह संकुद्धो राक्षसोऽथ महोदरः ॥ १९॥ गदा परिघहस्तौ तौ युधि वीरौ समीयतुः। नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥२०॥ शरेरित्यर्धम् । शुरः महोदरः एनं च सालं च शरैः विददारेत्यन्वयः ॥ १६॥ सः सुग्रीवः॥ १७॥ आविष्यति, आदायोति शेषः। तस्य महोदरस्य ममग्नमिति ।अनन्तरं सन्निहितम् ॥ ११-२०॥
For Private And Personal Use Only