________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सूर्यनष्टप्रभत्वादीनि रूपाणि जज्ञिर इति सम्बन्धः॥ ३४-४१॥ तेषां स्विति । आह्वयानानाम् आह्वयमानानाम्, स्पधर्या आह्वयताम् । आगमशास नस्यानित्यत्वान्मुगागमाभावः ॥ १२॥४३॥ निकृत्तशिरस इत्यादिश्लोकद्वयम् । स्पष्टम् ॥ ४४-४६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षण्णवतितमः सर्गः ॥ ९६ ॥
तेषां तुरथघोषेण राक्षसानां महात्मनाम् । वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥४१॥ तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम् । अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥४२॥ ततः क्रुद्धो दशग्रीवः शरैः काञ्चन भूषणैः । वानराणामनीकेषु चकार कदनं महत् ॥४३॥ निकृत्तशिरसः केचिद्रावणेन वलीमुखाः । केचिद्विच्छिन्न हृदयाः केचिच्छ्रोत्रविवर्जिताः। निरुच्छासा हताः केचित् केचित् पार्श्वेषु दारिताः॥४४॥ केचिदिभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ॥ ४५ ॥ दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन सङ्ख्थे । ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुङ्गवास्ते ॥४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमद्युद्धकाण्डे षण्णवतितमः सर्गः ॥९६॥ तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः । बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥१॥ रावणस्याप्रसह्यं तं शरसम्पातमेकतः। न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ॥२॥ तेऽर्दिता निशितैर्वाणैः क्रोशन्तो विप्रदुद्रुवुः । पावकार्चिस्समाविष्टा दह्यमाना यथा गजाः ॥३॥ प्लवङ्गानामनीकानि महाभ्राणीव मारुतः। स ययौ समरे तस्मिन् विधमन रावणः शरैः॥४॥ कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् । आससाद ततो युद्धे राघवं त्वरितस्तदा ॥५॥ सुग्रीवस्तान कपीन दृष्ट्वा भग्नान विद्रवतो रणे । गुल्मे सुषेणं निक्षिप्य चक्रे युद्धेऽद्भुतं मनः॥६॥ अथ विरूपाक्षवधः-तथा तैरित्यादि ॥ १॥ एकतः एकस्य अद्वितीयस्य ॥२-५॥ अद्भुतमिति क्रियाविशेषणम् ॥६॥७॥ Mu४१-४६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां षण्णवतितमः सर्गः ॥ १६ ॥ १॥ रावणस्येति । एकतः
For Private And Personal Use Only