SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भू. दी.अ.का. स०९९ ... भुजेरित्यायुपलक्षणे तृतीया ॥२४-२६ ॥ अथेति । अथानयदलाध्यक्षः सत्वरो रावणाज्ञया । द्रुतं सूतसमायुक्तं युक्तातुरगं स्थमिति पाठः ॥२७॥ आरुरोइत्यर्वमेकं वाक्यम् । भीमः रावणः॥२८॥ ततःप्रयात इति । सत्त्वगाम्भीर्यात् बलातिशयात् ॥ २९-३२॥ द्वारेणेति । उत्तरद्वारेणेत्यः असिभिः पट्टिशैशलैर्गदाभिर्मुसलै लैः। शक्तिभिस्तीक्षणधाराभिर्महद्भिः कूटमुद्गरैः ॥ २५॥ यष्टिभिर्विमलै श्चकैनिशितैश्च परश्वधैः । भिण्डिपालैः शतन्नीभिरन्यैश्चापि वरायुधैः ॥ २६ ॥ अथानयद्वलाध्यक्षः सत्वरो रावणाज्ञया । द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ॥ २७ ॥ आरुरोह रथं भीमो दीप्यमानं स्वतेजसा ॥ २८॥ ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः। रावणः सत्त्वगाम्भीर्यादारयन्निव मेदिनीम् ॥२९॥ रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ। विरूपाक्षश्च दुर्धर्षों स्थानारुरुहुस्तदा ॥ ३०॥ ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम् । नादं घोरं विमुञ्चन्तो निर्ययुर्जयकांक्षिणः॥ ३१॥ ततो युद्धाय तेजस्वी रक्षोगणवलैर्वृतः । निर्ययावुद्यतधनुः कालान्तकयमोपमः॥ ३२॥ ततः प्रजवनाश्वेन रथेन स महारथः । दारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥३३॥ ततो नष्टप्रभः सूर्यों दिशश्च तिमिरावृताः ॥३४॥ द्विजाश्च नेदुर्घोराश्च सञ्चचालेव मेदिनी। ववर्ष रुधिरं देवश्चस्खलुस्तुरगाः पथि ॥ ३५॥ ध्वजारे न्यपतगृध्रो विनेदुश्चाशिवं शिवाः । नयनं चास्फुरद्वामं सव्यो बाहु रकम्पत ॥३६॥ विवर्ण वदनं चासीत् किंचिदभ्रश्यत स्वरः ॥३७॥ ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनिरूपाण्येतानि जज्ञिरे॥३८॥ अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना । विनेदुरशिवा गृध्रा वायसै रनुनादिताः ॥३९॥ एतानचिन्तयन् घोरानुत्पातान समुपस्थितान् । निर्ययौ रावणो मोहादधार्थी कालचोदितः॥४०॥ ॥ ३३ ॥ ततो नष्टप्रभ इत्यादिशोकचतुष्टयमेकान्वयम् । रूपाणि दुनिमित्तरूपाणि । ततः अनन्तरं, ततः उत्तरद्वारात् । निष्पततः निष्कमतः । ततः प्रयात इति । सत्वगाम्भीर्यात बलालिशयात् ॥ २९-३७ ॥ रूपाणि दुनिमित्तस्वरूपाणि ॥ ३८-१०॥ ३९० For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy