________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.रा.भू.
॥२८५
लक्षणम् । सादृश्यदर्शनमपि मोहनास्त्रेणेति द्रष्टव्यम् । महात्मना महासभावन ।। २६॥ अदर्शनवत्सदृशदर्शनवच्चानेकत्वदर्शनं नास्त्रकृतम्, किंतु टी.यु.का. भीतिकृतमित्याह-ते विति। तुशब्दः पूर्वस्माद्विशेषपरः।मारीचेनाप्युक्तम्-"अपिरामसहस्राणि भीतः पश्यामि रावण" इति ॥२७॥ भ्रमन्ती रामस्या मण्डलाकारगतिविशेषेष्विति केचित् । निरन्तरज्याकर्षणादिति वयम् । अलातचक्रप्रतिमा निर्जालं काष्ठं निरन्तरभ्रमणेनान्तरालाग्रहणाचक्रत्वेन प्रतीयमानामिवेत्यर्थः ॥ २८ ॥ अथ तत्र समरसमये मण्डलीकृतकार्मुकं रामं सकलरिपुनिघातिसुदर्शनत्वेन रूपयति-शरीरेत्यादिना । "ज्वालानेम्यर।।
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः। पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥ २७॥ भ्रमन्ती काञ्चनी कोटिं कार्मुकस्य महात्मनः। अलातचक्रप्रतिमा ददृशुस्ते न राघवम् ॥ २८॥
शरीरनाभि सत्त्वार्चिः शरारं नेमिकार्मुकम् । ज्याघोषतलनिर्घोषं तेजोबुद्धि गुणप्रभम् ॥२९॥ नाभ्यक्षपुरुषाङ्गं सुदर्शनम्" इत्युक्तरीत्या चक्रं षडङ्गं भवति । तत्र कोदण्डचक्रमध्यस्थत्वादृढत्वाच्च शरीरं नाभित्वेन दर्शयति-शरीरेति । नाभिः चक्र मध्योन्नतप्रदेशः, शरीरमेव नाभिर्यस्य तत्तथोक्तम् । सत्त्वं बलमेवार्चिः ज्वाला यस्य तत् सत्त्वार्चिः। “वतेयोलकीलावचिहॅतिः शिखा स्त्रियाम्" इत्यमरः । सत्त्वस्य परसन्तापहेतुत्वादचिष्ट्वेन निरूपणम् । शरा एवाराणि चक्रमध्यशलाकाः यस्य तच्छरारम् । सुदर्शनस्य सहस्रारत्वाच्छराणामरत्व रूपणन युगपत्सहस्रशरसन्धान व्यज्यते । नेमिः आधारश्चक्रप्रान्तः, नेमिभूतं मण्डलीकृतकार्मुकं यस्य तत्कार्मुकनेमीत्यर्थः। एतेन मण्डलीकृत सादश्यप्रतीतो कारणमाह-न ते दहशिर इत्यादिना ॥ २६ ॥ २७ ॥ भ्रमन्ती रामस्य मण्डलाकारगतिविशेषेषु भ्रमन्तीम अत पय अलासचक्रप्रतिमा कार्मुककोटिं| दशुः न राघवमिति सम्बन्धः ॥ २८॥ धनुश्शिक्षाकृतलाधवातिशयान्मण्डलीकृतकार्मुकत्वेन राक्षसान्निघ्नन्तं रामं चक्रत्वेन निरूपयति-शरीरेत्यादिना । शरीर नाभि शरीरमेव नाभिः मध्यप्रदेशो यस्य तत् । सत्त्वार्चिः सत्त्वं बलं तदेवाचिर्यस्प तत् । शरारं शरा पव अराणि यस्य तत् । अराणि नामे: परितोतिशलाका
स-तत्रैव सैन्यान्तरे वृत्तं रामचरितमाह-त इति । ते राबणप्रेरिता राक्षसाः । रामसहस्राणि विश्वरूपत्वाद्रामस्य तद्गृहीतान्यनन्तरामरूपाणीत्यर्थः । रणे पश्यन्ति । उक्तं च भगवत्पादै:-"स एव सर्वत्र च ॥२८ श्यमानो विदिक्षु दिक्ष प्रजधान सशः " इति । पुन: क्षणान्तरे एकमे। पश्यन्ति । उकच संग्रहरामाषणे " अपानमात्रेण जगभियन्ता नायकोsपि विनिहायान । वर्षमेव च निदर्शयन् हि स विश्वरूपो कतविश्वरपन ।" इत्याचारभ्य-" एकाचकाराव स रामदेवो दीपाभिमानी हि यथाऽनिदेवः " इत्यन्तेन । यत्तु भारते-"मायावी चामजन्मायो राषणो राक्षसाधिपः ।"" भय भूयोऽपि मायां स व्यदधाद्राक्षसा धिपः " त्यादिना रावणमाययाऽनेकराक्षसरामलक्ष्मणरूपनिर्माणकथनं तदविरुद्ध मित्यत्रापि प्रायम् ॥ २७ ॥
For Private And Personal Use Only