________________
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
मिति । यथा चालनविधमनादिकार्यलिङ्गात् वायुरनुमितो भवति तद्वद्रामोऽप्यनुमितः, न तु प्रत्यक्षित इत्यर्थः ॥ २१॥ उक्तमर्थ विशदयतिछिन्नमिति । छिन्नं खण्डितम् । भिन्न विदारितम् । प्रभग्नं शकलीकृतम् । शस्त्रपीडितं हृदयार्पितशल्यम् ॥ २२॥ इन्द्रियार्थेषु तिष्ठन्तम् इन्द्रियार्था| ननुतिष्ठन्तम् अनुभवन्तम्, तेनानुभवेनानुमीयमानमपि भूतात्मानं भूतस्य पञ्चभूतात्मकशरीरस्य आत्मानं जीवात्मानं प्रजाः यथा न पश्यन्ति, तथैव
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् । बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ॥ २२॥ प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् । इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः॥२३॥ एष हन्ति गजानीकमेष हन्ति महारथान् । एष हन्ति शरैस्तीक्ष्णैः पदातीन वाजिभिः सह ॥ २४ ॥ इति ते राक्षसाः सर्वे रामस्य सदृशान रणे । अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य ते ॥ २५ ॥
न ते दद्दशिरे राम दहन्तमरिवाहिनीम् । मोहिताः परमात्रेण गान्धर्वेण महात्मना ॥ २६ ॥ शरीरेषु प्रहरन्तं तेन प्रहारेणानुमीयमानमपि राघवं पुरतश्चक्षुपा नादाक्षुरित्यर्थः । यद्वा इन्द्रियार्थेषु प्रत्यक्षतोऽनुभूयमानेषु गन्धादिगुणेषु, निराश्रय गुणावस्थानासम्भवात् सौम्येणानुवृत्तं भूतात्मानमिव पुष्पाद्यवयवभूतपृथिव्यादिस्वरूपमिवेत्यर्थः ॥२३ ॥ एप इन्तीत्यादिचोकद्वयमेकान्वयम् । सदृशान् सादृश्येन प्रतीयमानान् । अन्योन्यं सादृश्यादेव देतोर्जघ्नुश्चेत्यन्वयः ॥२४ ॥ २५ ॥ राक्षसाना रामादर्शनकारणमाइन्नत इति । इदमुप प्रहरन्तमिति । इन्द्रियार्थेषु तिष्ठन्तम् इन्द्रियविषयेषु प्रेरकत्वेन शरीरेषवतिष्ठन्तम् । भूतात्मानं परमात्मानम, प्रजा इव ते शरीरेषु महरन्तं वेगातिशयेन स्वशरीरेषु योगपोन शरैः महरन्तं राघवं न पश्यन्ति नाद्राक्षरिति सम्बन्धः । यद्वा इन्द्रियार्थेषु तिष्ठन्तम् इन्द्रियार्थाननुभवन्तम् । तेनानुभवेनानुमीयमानमपि भूतात्मानं जीवा त्मानं प्रजा यथा न पश्यन्ति तद्वदिति । यद्वा इन्द्रियार्थेषु शब्दादिविषयेषु तिष्ठन्तं भूतारमानं परमात्मानं प्रजा इव परमात्मनस्मर्वयापितया शब्दादिविषयेष उपादानचैतन्यरूपतया सक्ष्मरूपेण तिष्ठन्तं तेभ्योऽन्यत्वेन ते यथा नोपलभन्ते ॥ २५॥ एष हन्तीति लोकद्वयमेकं वाक्यम् । ते राक्षसाः रामस्य सहशान् सहश
त्वेन प्रतीयमानान् । 'एष हन्ति गजानीकम्' इति कुपितास्सर्वे ते राक्षसा रामस्य सादृश्यादेव अन्योन्यं अनुरिति सम्बन्धः ॥ २५ ॥ २५ ॥ राक्षसाना राघव KM स०-इति इत्याकारकज्ञानेन । ते सर्वे राक्षसाः एकसैन्यस्था रणे राघवाखेण मोहिताः सन्तः रामस्य सदृशा बभूवुः । ततश्च राधवस्य सादृश्यात्कुपितास्सन्तः अन्योन्यम् अयं राम इति स राम इति परस्पर
जानुः ॥ २५ ॥ एतदेव विशदयति-गते पति । सन्यैकदेशस्थाः रामम् भरिवाहिनी गान्धर्वास्त्रेण दहन्तं स्वस्थाने स्थितं तेनालेण महात्मना कळ मोहिताः सन्तः न दरशिरे इति योजना ॥२६॥
N
For Private And Personal Use Only