SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir अथ मूलबलयुद्धम् स प्रविश्येत्यादि ॥ १॥ अत्रवीदिति । रावणः प्राञ्जलिरिति । अनुनयार्थम अलिकरणम् ||२||३|| रामानु० - अब्रवीदिति । रावणः प्राश्चाले वक्यमिति पाठः ॥ २ ॥ एकमिति । परिक्षिप्य आवार्य, शरवर्षेण वृष्ट्वा हन्तुमईथेत्यन्वयः ॥ ४ ॥ स रामो यदि इन्तुं न शक्येत तथापि भवतां शरैः स प्रविश्य सभां राजा दीनः परमदुःखितः । निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥ १ ॥ अब्रवीच्च स तान् सर्वान् बलमुख्यान महाबलः । रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ॥ २ ॥ सर्वे भवन्तः सर्वेण हस्त्यश्वेन समा वृताः । निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ॥ ३ ॥ एकं रामं परिक्षिप्य समरे हन्तुमर्हथ । वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ॥ ४ ॥ अथवाऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे । भवद्भिः वो निहन्तास्मि रामं लोकस्य पश्यतः ॥५॥ इत्येतद्राक्ष सेन्द्रस्य वाक्यमादाय राक्षसाः । निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः ॥ ६ ॥ परि घान पट्टिशांश्चैव शरखड्गपरश्वधान् । शरीरान्तकरान सर्वे चिक्षिपुर्वानरान् प्रति ॥ ७ ॥ वानराश्च द्रुमान् शैलान राक्षसान् प्रति चिक्षिपुः ॥ ८ ॥ स सङ्ग्रामो महान् भीमः सूर्यस्योदयनं प्रति । रक्षसां वानराणां च तुमुलः समपद्यत ॥ ९ ॥ ते गदाभिर्विचित्राभिः प्रासैः खङ्गैः परश्वधैः । अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ॥ १० ॥ एवं प्रवृत्ते सङ्ग्रामे युद्धतं सुमहद्रजः । रक्षसां वानराणां च शान्तं शोणितविस्रषैः ॥ ११ ॥ भिन्नगात्रः स्यात्, तेन तस्य वधः सुकरो मे भवेदित्यभिप्रायेणाह - अथवेति । इदानीं यूयं तं हन्तुं न शक्ताश्वेदिदानीं तीक्ष्णैः शरैर्भवद्भिर्भिन्नगात्रं श्वो निहन्तास्मि ॥ ५८ ॥ सूर्यस्योदयनं प्रति सूर्योदयमारभ्य ॥ ९ ॥ ते मदाभिरिति । अन्योन्यं जघ्नुरित्यत्र शिलावृक्षाणामप्युपलक्षणम् । राक्षसेभ्यो ॥ १-३ ॥ एकमिति । परिक्षिप्य परितो निरुध्य ॥ ४ ॥ अथवा अद्य रामहननासम्भवपक्षे भवद्भिभित्रगात्रं वो निहन्तास्मीति सम्बन्धः । एकं राममित्यादि लोकद्वयस्य वास्तवार्थस्तु शरान वर्षन्तो युगं परिक्षिप्य मिलित्वा एकं मुख्यं रामं समरे हन्तुं गन्तुमईयेति सम्बन्धः । अथ भवद्भिर्वा शरैर्महारणे भित्रगात्रं रामं लोकस्य पश्यतः अहं वो निहन्ता गन्ता गमिष्यामीत्यर्थः ॥ १-८ ॥ स सङ्ग्राम इति । सूर्यस्योदयनं प्रति सूर्योदयमारम्य ॥ ९ ॥ अन्योन्यं जघ्नतुरित्यत्र स० [नावे साा असाहान्यादित्यर्थः ॥ २॥ शरवर्षाणि जलवर्षाणि वाणवर्षाणीति नीरदसेनोभयपक्षेऽपि क्रमादयों बोध्यः । प्रहृष्टाः शस्वश्रेणीति पाठः ॥ ४ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy