SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.यु.का. भा.रा.भ. २८३॥ 17 अभ्युत्थानं युद्धनिर्याणप्रारम्भम् । चतुर्दशी चतुर्दश्याम् । अमावास्याम् अमावास्यायाम् । अनेन त्रयोदशयुद्धदिनान्यतीतानीत्यवगम्यते । तथा हि-"ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरन्जितः। पूर्णचन्द्रप्रदीपा च सपा समभिवर्तते ॥” इति वचनात् पोर्णमास्यां सुवेलाप्रवेशः, ततः कृष्णपक्षप्रथमायां युद्धस्यारम्भः, तस्यामेव रात्रौ नागपाशवन्धतद्विमोझो, द्वितीयायां धूम्राक्षस्य वधः, तृतीयायां वज्रदंष्ट्रस्य, चतुर्थ्यां। कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज । हन्तुमिच्छसि वैदेही क्रोधाद्धर्ममफास्य हि ॥ ६२ ॥ वेदविद्यावतस्नातः स्वकर्मनिरतः सदा। स्त्रियाः कस्मादधं वीर मन्यसे राक्षसेश्वर ॥६३॥ मैथिली रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव । त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ॥ ६४ ॥ अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् । कृत्वा निर्याह्यमा वास्यां विजयाय बलैर्वृतः ॥ ६५ ॥ शूरो धीमान रथी खड्गी रथप्रवरमास्थितः । हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ॥ ६६ ॥ स तदुरात्मा सुहृदा निवेदितं वचः सुधर्म्य प्रतिगृह्य रावणः । गृहं जगामाथ ततश्च वीर्यवान् पुनः सभा च प्रययौ सुहद्वतः ॥६७॥ इत्या श्रीरामायणे श्रीमद्यद्धकाण्डे त्रिनवतितमः सर्गः॥९३॥ मकम्पनस्य, प्रहस्तस्य पञ्चम्याम्, षष्ठयां रावणमुकुटभङ्गः, सप्तम्यां कुम्भकर्णस्य वधः, अपम्यामतिकायादीनाम्, नवम्यां पुनरिन्द्रजिद्युद्धम् , तस्या। मेव रात्रौ कुम्भनिकुम्भादीनां वधः, दशम्यां मकराक्षस्प, एकादश्यां द्वादश्यां त्रयोदश्यां चेन्द्रजिद्वधः । वस्तुतस्तु नवम्यां युद्धारम्भात्तदारभ्य दिन। द्वयेन रावणेन्द्रजिन्मूलबलव्यतिरिक्तराक्षसनिबर्हणात् एकादशीद्वादशीत्रयोदशीभिरिन्द्रजिदूध इति चतुर्दश्यामभ्युत्थानवचनं युज्यत एव ॥६५-६७॥ गमानु०-शूर इति । रथी महारथ इत्यर्थः ।। ६६ ॥ इति श्रीगोविन्दराज श्रीरामायण रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ ९३ ॥ |फलिष्यति स्फुटिष्यति ॥५६-६३ ॥ मैथिलीमिति । प्रत्यवेक्षस्व कालान्तरे मैथिली व शगा भविष्यतीति प्रत्यवेक्षस्वेत्यर्थः ॥६४ ॥ अद्य चतुर्दशी चतुर्दश्याम अभ्युत्थान समरोद्योगं युद्धाय प्रस्थानं कृत्वा अमावास्यायां विजयाय निर्याहि ॥ ६ ॥ शूर इत्यस्य प्रातीतिकार्यः स्पष्टः । वस्तुतस्तु-दाशरथि प्रति गत्वा, दाशरथि मैथिली भवान प्राप्स्यति, रणे इतस्सन तयोः पार्षदता प्राप्स्यतीत्यर्थः॥६६॥६॥ इति श्रीमहेश्वरती० श्रीरामायण युद्धकाण्ड विनवतितमः सर्गः॥९॥ ॥२८॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy