SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.यु.का. .९३ वा.रा.भ. उद्धृत्येत्यादिश्लोकद्वयमेकं वाक्यम् । गुणसम्पन्नं माल्यालंकृतम्, विमलाम्बरवर्चसं विमलाकाशसहशम् खड्गमादाय कोशादुद्धृत्य यत्र मैथिली तं देश प्रति निष्पपातेत्यन्वयः ॥३९॥४०॥ वजन्तमित्यादिसायश्लोकत्रयमेकान्वयम् । रत्नानि श्रेष्ठवस्तुनि । “रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमरः॥४-१५ उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम् । निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ॥ ३९ ॥ रावणः पुत्रशोकेन भृशमाकुलचेतनः । संक्रुद्धः खङ्गमादाय सहसा यत्र मैथिली॥४०॥ वजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः। ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः॥४१॥ अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः । लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः॥४२॥ बहवः शत्रवश्चापि संयुगेषु निपातिताः। त्रिषु लोकेषु रत्नानि भुते चाहत्य रावणः ॥४३॥ विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ॥४४॥ तेषां सञ्जल्पमानानामशोकवनिकां गताम् । अभिदुद्राव वैदेही रावणः क्रोधुमूञ्छितः ॥४५॥ वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः । अभ्यधावत संक्रुद्धः खे ग्रहोरोहिणीमिव ॥ ४६ ॥ मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता । ददर्श राक्षसंक्रुद्धं निस्त्रिंशवरधारिणम् ॥४७॥ तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा। निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम् । सीता दुःखसमा विष्टा विलपन्तीदमब्रवीत् ॥४८॥ यथाऽयं मामभिक्रुद्धः समभिद्रवति स्वयम् । वधिष्यति सनाथां मामनाथामिव दुर्मतिः॥४९॥ बहुशश्चोदयामास भारं मामनुव्रताम् । भायो भव रमस्वति प्रत्याख्यातो ध्रुवं मया ॥५०॥ पग्रहः अङ्गारकः॥४६-४८॥ रामानु०-तमिति । निशाम्य दृष्टा ॥ ४८॥ यथेति। यथा यस्मादित्यर्थः ॥ १९॥५०॥ द्वयस्य वास्तवार्थस्तु-मम बरसेन बालेनापि सतेन्द्रजिता बनौका वचनार्थम् इयं सीतेति किश्चिदेव अलीकमेव हतं दर्शितम् । अहं क्षत्रबन्धु क्षत्राणां बन्धू परमानं राममनुव्रता वैदेही तथ्यं यथा तथा नाशयिष्यामि यदि नदिदम् आत्मनः अभियम् पब स्यात् अतः करिष्ये, इतरराक्षससन्तोषार्थ तस्याः किश्चिदुखमिति शेषः ॥३७॥३८॥ उदृत्येत्यादिश्लोकद्वयमेकं वाक्यम् ।विमलाम्बरवर्चसं निर्मलाकाशसदृशं खड्गमादाय उद्धृत्य कोशाधृत्य यत्र मैथिली तं देशं प्रति सचिवेतस्सन निष्पपानेति सम्बन्धः ।। ३९-४२॥ त्रिषु लोकेषु रत्नानि आदत्य रावणः भुड़े। विक्रमे च बले चैव नास्त्यस्य सहशोभुवि इति पाठः आवृत्येति पाठे-आवृत्य आक्रम्य ।। ४३-१७ ॥ अनुवर्तिनम् अभिमुखमागच्छन्तम् ॥४८॥ यथा यस्मात्कारणाद ॥ ४२ ॥ वषिष्यतीत्पत्र कारणमाह-बहुश इति ॥ ५० ॥ ॥२८॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy