________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इत्यमरः। भयाभावे हेतुमाह-कवचमिति । यत् यस्मात् कवचमस्ति तस्मादिति पूर्वेणान्वयः ॥ २९ ॥३०॥ तेन कवचेन संयुक्तं रथस्थं माम्। इह संयुगे का प्रतीयात् आभिमुख्येनागच्छेत् ? अद्य मामाजी साक्षात्पुरन्दरोऽपि न प्रतीयादिति च योज्यम् । अर्थसिद्धौ न । क्रियापदमस्त्येव ।
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् । देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ॥३०॥ तेन मामद्य संयुक्तं रथस्थ मिह संयुगे । प्रतीयात् कोऽद्य मामाजी साक्षादपि पुरन्दरः॥ ३१ ॥ यत्तदाऽभिप्रसन्नेन सशरं कार्मुकं महत् । देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ॥ ३२ ॥ अद्य तूर्यशतैभीमं धनुरुत्थाप्यतां मम । रामलक्ष्मणयोरेव वधाय परमाहवे ॥३३॥ स पुत्रवधसन्तप्तःशूरः क्रोधवशं गतः । समीक्ष्य रावणो बुद्धया सीवां हन्तुं व्यवस्यत ॥३४॥ प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः। दीनो दीनस्वरान् सास्तानुवाच निशाचरान् ॥ ३५ ॥ मायया मम वत्सेन वञ्चनार्थ वनौकसाम् । किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् ॥ ३६ ॥ तदिदं तथ्यमेवाहं करिष्ये प्रिय
मात्मनः। वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ॥ ३७॥ इत्येवमुक्त्वा सचिवान् खगमाशु परामृशत् ॥३८॥ अनेवंव्याख्याने अद्य मामाजाविति पुनरुक्तं स्यात् ॥ ३१ ॥ यत्तदेत्यादिश्लोकद्वयभेकान्वयम् । देवासुरविमर्देषु विमर्दकाल इत्यर्थः । अद्य तूर्यशत रित्यनेन इतःपूर्वमिदं धनुर्न नीतमिति गम्यते ॥ ३२-३१ ॥ प्रत्यवेक्ष्येति । सुघोरः सुघोरप्रकृतिः ॥ ३५ ॥ माययेत्यादिश्लोकद्वयमेकान्वयम् । सीतेय मिति दर्शितं किञ्चित् अलीकमेवेत्यर्थः ।। ३६ ॥ ३७॥ इत्येवमित्यर्धम् । परामृशत् आददे ॥ ३८॥ भयाभावे हेतुमाह-कवचमित्यर्थेन । आदित्यसरशम यात्कवच ब्रह्मदतं तस्मिन् सति मम सुरेभ्यो भयं नास्तीति पूर्वण सम्बन्धः ॥ ३०॥ तेन कवचेन संयुक्तं म का प्रतीयात् को वा आभिमुख्येनागच्छेत् ? साक्षात्पुरन्दरोऽप्याडौ मान प्रतीयादिति शेषः ॥ ३१ ॥ देवासुरविमर्देषु विषये स्वयम्भुवा मम दत्तम् ॥३२॥ अद्य तूर्येत्यस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-रामलक्ष्मणयोस्सम्बन्ध्याहवे वधाग, वानराणामिति शेषः । मम भीमं धनुः तूशलेस्सहोत्थाप्यतामिति सम्बन्धः ॥ ३३॥ सीता हन्तुं व्यवस्थत निश्चितवान् । वस्तुतस्तु-सीता हन्तुं गन्तुम, सीतादर्शनार्थ गन्तुं व्यवस्थतेत्यर्थः । “हन हिंसागत्योः" इति धातुः ॥३४-३५ ॥ वनौका वक्षनाय इयं सीतेति किश्चिदेव व्यलीकमेव वस्तु हतमिनि दर्शितम् ॥ ३६॥ तत् हननं तथ्यमेव करिष्ये । तदेवाह वैदेहीमिति । माययेत्यादिशोक
For Private And Personal Use Only