________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सार्घश्लोकमेकं वाक्यम् ॥२०॥ तत इत्यादिसाघश्लोकत्रयमेकान्वयम् । मधुवारुणी मधुरूपां वारुणीम् । रणकुअरं रणाप्रधृष्यम् । स्वःस्था इत्यमङ्ग लोक्तिः॥२१-२४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टमः सर्गः॥ ८॥
ततो वजहनुर्नाम राक्षसः पर्वतोपमः । क्रुद्धः परिलिहन वक्रं जिह्वया वाक्यमब्रवीत् ॥२१॥ स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः। एकोऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान् ॥ २२ ॥ स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तो मधुवारुणीम् ॥२३॥ अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम् । अङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ॥२४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे अष्टमः सर्गः ॥८॥ ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः। सुप्तन्नो यज्ञहा रक्षो महापावों महोदरः ॥ १॥ अग्निकेतुश्च दुर्धर्षों रश्मिकेतुश्च राक्षसः । इन्द्रजिच्च महातेजा बलवान रावणात्मजः ॥२॥ प्रहस्तोऽथ विरूपाक्षो वजदंष्ट्रो महाबलः। धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३॥ परिघान् पट्टिशान् प्रासान् शक्तिशुलपरश्वधान् । चापानि च सबा णानि खगोश्च विपुलान् शितान् ॥४॥ प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः। अब्रुवन् रावणं सर्वे प्रदीप्ता
इव तेजसा ॥५॥अद्यरामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् । कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥६॥ अथ निकुम्भमतमेवानुसरन्तः सर्वेऽपि प्रधाना अहमहमिकया समुत्थाय शवधोयुक्ताः । तमुद्योग नीतिशास्त्रज्ञो विभीषणः प्रतिषिद्धवानित्याह-तत इत्यादि श्लोकषट्कमेकं वाक्यम् । आदौ निकुम्भोपादानं निकुम्भमतानुसरणसूचनार्थम् । समुत्पत्य आसनेभ्यः समुत्थाय । प्रधर्षितेत्यनन्तरमिति मधुवारुणी मधुरूपा वारुणीम् । रणारं रणाप्रभृष्यम् ॥२॥२४॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्वदीपिकाख्यायो युद्धकाण्डव्याख्यायाम् अष्टमः सर्गः ॥८॥ तत इत्यादिश्लोकषङ्कमेकं वाक्यम् । तस्य अद्य रामं वधिप्याम इत्यब्रुवन्निति क्रियया सम्बन्धः । वस्तुतस्तु-लक्ष्मण राम विना सुग्रीवादीन् बधिष्याम इति सम्बन्धः।
देन
Hel
For Private And Personal Use Only