________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandir
युद्धमरणस्य सर्वाकासितत्वायुद्धहतं त्वां न शोचामीत्याह-एष इति । एषः युद्धमरणरूपः पन्थाः ॥ ९ ॥ एवं यशस्यत्वादशोच्यत्वमुक्त्वा स्वय॑त्वादशोच्यत्वमाह-य इति ॥ १०॥११॥ लोकात्रय इत्युक्तावपि पृथिव्याः पृथगुपादानं प्राधान्यात् । यथा ब्राह्मणा आगता वसिष्ठोऽप्यामत
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ॥ ९॥ यः कृते हन्यते भर्तुः स पुमान स्वर्गमृच्छति । अद्य देवगणाः सर्वे लोकपालास्तथर्षयः । हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः॥१०॥ अद्य लोकास्त्रयः कृत्स्ना प्रथिवी च सकानना । एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥ ११॥ अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्त पुरे रवम् । करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ॥ १२ ॥ यौवराज्यं चलङ्का चरक्षांसि च परन्तर । मातरं मां च भार्या च व गतोऽसि विहाय नः ॥ १३॥ मम नाम त्वया वीर गतस्य यमसादनम् । प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥ १४ ॥ स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे । मम शल्यमनुद्धृत्य व गतोऽसि विहाय नः ॥ १५॥ एवमादिविलापात रावणं राक्षसाधिपम् । आविवेश महान कोपः पुत्रव्यसनसम्भवः ॥१६॥ प्रकृत्या कोपनं ह्येनं
पुत्रस्य पुनराधयः । दीप्तं सन्दीपयामासुर्धर्मेऽर्कमिव रश्मयः ॥ १७ ॥ इत्यादौ ॥१२॥ नः सर्वानिति योजनीयम् ॥१३-१६॥ प्रकृत्या कोपनमित्यस्य विवरणं दीप्तमिति। पुत्रस्य पुत्रसंबन्धिन्यः, पुत्रविषया इत्यर्थः। आधयः । कालधर्मणा संयोजितः ॥ ८॥ युद्धमरणस्य सकलशरजनकाशितलया युद्धहतं त्वां न शोचामीत्याह-एष इति । सुयोधाना भरणाय एष पन्थाः । सर्वामर गणेष्वपीति । न केवल मनुष्येषु सर्वामरगणेष्वपि स साध्य इति भावः ॥ ९॥ एतेन यशस्करत्वादशोच्यत्वमुक्तम् । इदानी स्वर्गहेतुत्वादप्यशोच्यत्वमाह-यः कत इति । मर्तःकते या हन्यते सः स्वर्गमुच्छतीति सम्बन्धः ॥१०॥ यो लोकाः पातालान्तरिक्षस्वर्गाः, पृथिव्याः पूधमभिधानात ॥११-१३ ॥ मम त्वया प्रेतकार्याणि कर्तव्यानि, विपरीते व्युत्क्रमे वर्तस इति सम्बन्धः ॥१४॥ स त्वमित्यस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-सलक्ष्मणे रामे जीवति सति यस्त्वं जीवितं । कस्माइजसि, तयोरसाध्यत्वादिति भावः ॥१५॥१६॥ प्रकृत्येति । पुत्रस्याधयः पुत्रसम्बन्ध्याधयः, पुत्रमरणजनितमनःपीडेति यावत् ॥ १७-१९॥
For Private And Personal Use Only