________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
..
अथ सीतायधोद्योगपर्यन्तो रावणस्य पुत्रशोकातिशय उच्यते-ततः पौलस्त्यसचिवा इत्यादि । पौलस्त्यसचिवाः रावणागारवर्तिनः सहायभूताः, इन्द्र जितं इतं श्रुत्वा स्वयमभिज्ञाय साभिज्ञानं दृष्ट्वा, सव्यथाः सन्तो रावणाय आचचक्षुः आचचक्षिरे । अथवा अभिज्ञायेति चतुर्थी । पूर्वमेव यज्ञविप्रेन निश्चिततधायेत्यर्थः। अवज्ञायेति पाठेऽपि चतुर्थीपक्षे अयमेवार्थः। पक्षान्तरे साक्षात्कारपर्यन्तदर्शनं प्राप्येत्यर्थः ॥ १॥ मिषता नः अस्मासु पश्यत्सु
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् । आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥१॥ युद्धे हतो महा राज लक्ष्मणेन तवात्मजः । विभीषणसहायेन मिषा नो महाद्युतिः॥२॥शरःशूरेण सङ्गम्य संयुगेष्वपराजितः। लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित् । गतः स परमान लोकान् शरैः सन्ताप्य लक्ष्मणम् ॥३॥ स तं प्रति भयं श्रुत्वा वधं पुत्रस्य दारुणम् । घोरमिन्द्रजितः सङ्खये कश्मलं चाविशन्महत् ॥ ४ ॥ उपलभ्य चिरात् संज्ञा राजा राक्षसपुङ्गवः । पुत्रशोकादितो दीनो विललापाकुलेन्द्रियः॥५॥ हा राक्षसचमूमुख्य मम वत्स महारथ । जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ॥६॥ ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि । मन्दर स्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ॥ ७ ॥ अद्य वैवस्वतो राजा भूयो बहुमतो मम। येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ॥८॥ सत्स्वि त्यर्थः । अनन्तरयोजनायामस्मासु जीवत्स्वित्यर्थः । अनादरे षष्टी ॥२॥ शूर इत्यादिसार्धशोक एकान्वयः । क्रियाभेदाच्छूरपदद्वयम् । विबुर घेन्द्रजित् देवेन्द्रजित् ॥ ३ ॥ दारुणं करुणम् । पोरं तीक्ष्णम् । कश्मलं मृाम् । “मूर्छा तु कश्मलं मोहः" इत्यमरः ॥४-६॥ ननु त्वामति । नन्वि. त्यामन्त्रणे । कालान्तको यमस्य मूर्तिभेदो॥७॥ भूयः अतिशयेन । कालधर्मणा मरणेन । आपोंऽनिच समासान्तः। संयुक्तः संयोजितः॥८॥ तत इति । स्वेनस्वेन सैन्येन परिपताः ततस्ततो वानरैम्सह युद्धचन्तः पौलस्त्यसचिवास्तवेन्द्रजितं हतं श्रुत्वा अभिज्ञाय दृष्टा सव्यथा रावणापाचचक्षुः आचा क्षिरे इत्यवगन्तव्यम् । मिषता नो महागुतिरित्यनुपद वाभिधानात ॥ १-३॥ दारुणं करुणम् । घोरं तीक्ष्णम् । प्रतिभयं भयङ्करम् । कमलं माम् ॥ ५-६॥ कालान्तकावपि कालः सर्वसंहारकः, अन्तकः कालाभिमानी पुरुषः॥॥ अद्येति । भूयो बहुमतः, अतिशयेन सम्मत इति दुःखातिशयोक्तिः । येन वैवस्वतेन
For Private And Personal Use Only