________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kalassagarsun Gyanmandir
स तमिति । समाभाष्य आमन्च्य ॥ १९॥ सशल्पोऽयमिति । समुपाचर चिकित्सां कुरु ॥२०॥ विशल्य इति धोकडयमेकान्तयम् । ऋक्षवानर सैन्यानामिति निर्धारणे षष्ठी ॥ २१ ॥ २२ ॥ एवमिति । नस्तः नासिकायाम् ॥ २३ ॥ निवेदनः वेदनारहितः ॥ २४-२६॥ तथैवेति । सुदा, युक्तमिति सतं भ्रातरमाश्वास्य परिष्वज्य च राघवः । रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ॥१९॥ सशल्योऽयं महाप्राज्ञ सौमित्रिमित्रवत्सलः । यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ॥२०॥ विशल्यः क्रियतां क्षिप्रंसौमित्रिः सविभीषणः। ऋक्षवानरसैन्यानां शराणां दुमयोधिनाम् ॥२१॥ ये चाप्यन्येऽत्र युध्यन्ति सशल्या वणिनस्तथा। तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ॥२२॥ एवमुक्तस्तु रामेण महात्मा हरियूथपः । लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् ॥ २३ ॥ सतस्या गन्धमाघाय विशल्यः समपद्यत । तथा निर्वेदनश्चैव संरूढवण एव च ॥ २४ ॥ विभीषणमुखानां च सुहृदा राघवाज्ञया। सर्ववानरमुख्यानां चिकित्सा स तदाऽकरोत् ॥ २५ ॥ ततः प्रकृतिमापनो हृतशल्यो गतव्यथः । सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ॥ २६ ॥ तथैव रामः प्लवगाधिप स्तदा विभीषणश्चक्षपतिश्च जाम्बवान् । अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ॥२७॥ अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा । हृष्टा बभूवर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ॥ २८ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥ शेषः । मुदा युक्तं सौमित्रिमवेक्ष्य जहर्षिर इति सम्बन्धः । जहपिर इत्यत्र गुण आपः ॥२७ ॥२८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विनवतितमः सर्गः ॥ ९२ ॥ भूतः ॥१४-१८ ॥ समाभाप्य सम्बोध्य ॥ १९ ॥२०॥ ऋक्षवानरसैन्यानामिति निर्धारणे पष्ठी ॥२१॥२२॥ नस्तः नासिकायाम् ॥२३-२८॥ इति श्रीमहेश्वरतीर्थ विरचितायो श्रीरामायणतत्वदीपिकाख्यायाँ युद्धकाण्डव्याख्यायां द्विनवतितमः सर्गः ॥ ९२ ॥
For Private And Personal Use Only