________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥२७॥
टी.यु.का.
युद्धकर्मणा ॥ ८॥ स तमित्यादिश्वोकद्वयमेकान्वयम् । आरोप्य आरोपणायाकृष्य । अवपीडितं शल्यपीडितम्, गाढं यथा भवति तथेति वा । क्रियाभेदात्तमिति द्विरुक्तिः ॥ ९ ॥ १० ॥ शल्यसंपीडितमित्यादिश्वोकद्वयमेकान्वयम् । शस्तं प्रहृतम्, निश्वसितः स्वयंकृतनिश्वासः, त्वरन्
स तं शिरस्युपात्राय लक्ष्मणं लक्ष्मिवर्धनम् । लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ॥९॥ उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् । भ्रातरं लक्ष्मणं स्निग्धं पुनः पुनरुदैवत ॥१०॥ शल्यसंपीडितं शस्तं निश्व सन्तं तु लक्ष्मणम् । रामस्तु दुःखसन्तप्तस्तदा निश्वसितो भृशम् ॥ ११॥ मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् । उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः॥ १२॥ कृतं परमकल्याणं कर्म दुष्करकर्मणा । अद्य मन्ये हते पुत्र रावणं निहतं युधि । अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ॥ १३ ॥ रावणस्य नृशंसस्य दिष्टया वीर त्वया रणे । छिनो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः ॥ १४ ॥ विभीषणहनूमद्भया कृतं कर्म मह द्रणे । अहोरात्रैस्त्रिभिर्वीरः कथञ्चिदिनिपातितः ॥ १५ ॥ निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः । बल व्यूहेन महता श्रुत्वा पुत्रं निपातितम ॥१६॥ तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम् । बलेनावृत्य महता निहनि
ष्यामि दुर्जयम् ॥१७॥ त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे। न दुष्प्रापा हते त्वद्य शकजेतरि चाहवे॥१८॥ संस्पृश्य, त्वरा च प्रहारव्यथापनयनायेति भावः ॥ ११ ॥ १२ ॥ कृतमित्यादिसायश्लोकः । दुष्करकर्मणा, त्वयेति शेषः ॥ १३ ॥ रावणस्येति। व्यपाश्रयः आलम्बनम् ॥ १४॥ विभीषणेति । अहोरात्रैखिभिरिति एकादशीदादशीत्रयोदशीभिरित्यर्थः ॥१५॥ निरमित्र इत्यादिश्वोकद्वयमेकान्वयम्, ॥१६॥ १७॥ त्वयेति । नाथेन याचमानेन । " नाथ याच्भायाम्" इत्यस्मात्पचायच ॥ १८॥ उनु वदति-रावणेस्त्विति ॥ १-८॥ स तमित्यादिलोकद्वयमेकं वाक्यम् । क्रियाबाहुल्यात्तमिति द्विरुक्तिः । अङ्गमारोप्य अई प्रत्यारोपणायाकृष्य उत्सने उपवेश्य | अवपीडितं गाढं यथा तथा परिष्वज्य तं पुनः पुनरुदैक्षतेत्यन्वयः ॥९-१२ ॥ दुष्करकर्मणा दुष्करपौरुषेण, त्वयोति शेषः ॥ १३॥ व्यपाश्रयः अवलम्ब
For Private And Personal Use Only