SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir देवाः इन्द्ररिपुं विनिहतं निशम्य परमं मनःप्रहर्षम् उपलभन् उपालभन्त । अथ असुकरं तत् इन्द्रजिद्धननं प्रियसुहृदः लक्ष्मणस्य, कर्म कृतिविषय भूतम् अभिवीक्ष्य हृष्टाः विस्मिताः, आसन्निति शेषः । “विस्मितप्रतिघातयोश्चेति वक्तव्यम्" इति हृषेः पाक्षिक इडभावः । देवाश्चारणादिमुखेन । प्रथममिन्द्रजिद्धननं श्रुत्वा सन्तुष्टाःसन्तः पश्चात्तस्यात्यन्ताशक्यत्वादतथ्यं मन्वाना युद्धभूमिमागत्य तत्प्रत्यक्षीकृत्य विस्मिता आसन्निति भावः॥९८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकनवतितमः सर्गः॥ ९१ ॥ रुधिरक्लिन्नगावस्तु लक्ष्मणःशुभलक्षणः। बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ॥ १॥ ततः स जाम्बवन्तं च हनु मन्तं च वीर्यवान् । सन्निहत्य महातेजास्तांश्च सर्वान् वनौकसः ॥२॥ आजगाम ततस्तीवं यत्र सुग्रीवराघवौ। विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥३॥ ततो राममभिक्रम्य सौमित्रिरभिवाद्य च । तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः॥४॥ निष्टनन्निव चागम्य राघवाय महात्मने। आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥५॥रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना। न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥६॥ श्रुत्वैतत्त महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् । प्रहर्षमतुलं लभे रामो वाक्यमुवाच ह ॥७॥ साधु लक्ष्मण तुष्टोऽस्मि कर्मणा सुकृतं कृतम् । रावणेर्हि विनाशेन जितमित्युपधारय ॥८॥ अथ लक्ष्मणश्चाघनं-रुधिरक्किन्नगात्रेत्यादि॥ १॥तत इत्यादिश्लोकद्वयमेकान्वयम् । सन्निहत्य सङ्घीभूय । अवष्टभ्य युद्धपारवश्यादवलम्ब्य ॥२॥३॥ तत इति । इन्द्रस्येव बृहस्पतिरिति पारतन्त्र्यमाने साम्यम् ॥ ४॥ निष्टनन् अव्यक्ताक्षरं वदनित्यर्थः । इवशब्दो वाक्यालङ्कारे । आयासस्याभि नयनमात्रेणालीकत्वद्योतनाय वा ॥५॥ रामसन्निधौ सङ्कोचवता लक्ष्मणेनाविशेषणेन्द्रजिद्वधकथनाद्विभीषणः स्पष्टतयाऽऽह-रावणेरिति । यहा। लक्ष्मणेन सूचनयोक्तावपि हर्षप्रकर्षेण विभीषणः पुनराह-रावणेरिति ॥ ६॥ महावीर्यों राम इत्यन्वयः ॥७॥ सुकृतं कृतं सुकर्तव्यं कृतम् । कर्मणा MIT१॥२॥ आजगामेति । अवष्टभ्य अवलम्व्य, युद्धपारवश्यादिति भावः ॥ ३॥ इन्द्रस्येव बृहस्पतिः प्रधानोपसर्जनभावनावस्थानमात्रे दृष्टान्तः ॥४॥ निश्वस निवेत्यत्र इवशब्दो वाक्यालङ्कारे ॥ ५॥ स्वपौरुषकथनव्रीडितेन लक्ष्मणेन सर्वकर्तृकत्वाभिधानेन कथितमिन्द्रजिद्धं लक्ष्मणकर्तृकनिर्देशपूर्वकं विभीषणो २२४ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy