SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir टी.प.का. वा.रा.भ. ॥२७॥ स . .. त्वरनिवेति । इवशब्दो वाक्यालङ्कारे । निरकृन्तत अच्छिनत् ॥१८-२३॥ रामानुस भिन्नवमेति । अनेन पुनश्च कवचान्तरमपि स्वीकृतवानित्यवगम्यते ॥२१॥ रावणिश्चापि संक्रुद्धोरणे वानरयूथपान् । पातयामास बाणौधैः शतशोऽथ सहस्रशः ॥ १४॥ स मण्डलीकृतधनू रावणिः समितिञ्जयः। हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः॥१५॥ ते वध्यमाना हरयो नाराचैीमविक्रमाः। सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः॥१६॥ ततः समरकोपेन ज्वलितो रघुनन्दनः । चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् ॥ १७॥ सोऽन्यत् कार्मुकमादाय सज्यं चक्रे त्वरनिव। तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ॥ १८॥ अथैनं छिन्नधन्वानमाशीविषविषोपमैः । विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ॥१९॥ ते तस्य कायं निर्भिद्य महाकार्मुकनिस्मृताः। निपेतुर्धरणी बाणा रक्ता इव महोरगाः ॥२०॥ स भिन्नवर्मा रुधिरं वमन् वक्रेण रावणिः। जग्राह कार्मुकश्रेष्टं दृढज्यं बलवत्तरम् ॥२१॥ स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः। ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः॥ २२॥ मुक्तमिन्द्रजिता तत्तु शरवर्षमारिन्दमः । अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ॥ २३॥ दर्शयामास च तदा रावणि रघुनन्दनः। असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ॥२४॥ ततस्तान राक्षसान सर्वास्त्रिभिरेकैकमाहवे ॥२५॥ अविध्यत् परमक्रुद्धःशीघ्रास्त्रं सम्प्रदर्शयन् । राक्षसेन्द्रसुतं चापि बाणौधैः समताडयत् ॥२६॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना। असक्तं प्रेषयामास लक्ष्मणायबहून् शरान २७ दर्शयामास, पराक्रममिति शेषः॥ २४ ॥ रामानु०-स दर्शयामासेति । हस्तलाघवमिति शेषः । रावणिं हस्तलाघवं दर्शयामासेति सम्बन्धः ॥ २४ ॥ ततस्तानित्यादिसा शोक एकान्वयः। शीमास्त्रं शीघ्रमन्त्रम् ॥ २५ ॥ २६ ॥ असक्तम् अव्यासङ्गम्, अविलम्बितं वा ॥ २७ ॥ समरकोपेन रावणिसमरजन्यकोपेन ॥ १७ ॥ त्वरान्निव शीघ्रमेव ॥ १८॥ १९ ॥ रक्ता, बाणानामपि रुधिरसम्बन्धादक्तत्वम् ॥ २०-२३॥ दर्शयामास, आत्म पौरुषमिति शेषः ॥ २४-२६ ॥ असक्तं सन्ततम् ॥ २७ ॥२८॥ N २७५॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy