________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
श्रेष्ठाविव । यद्वा किंचिद्धीनबलत्वादिन्द्रजितो वृषभतुल्यत्वम् ॥२॥सम्पतन्तः परितः सञ्चरन्त हत्यर्थः ॥३॥ स्तुवानः स्तुवन् । हर्षमाणः, आर्षः शानचा निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः। भर्तारं न जहुयुद्धे सम्पतन्तस्ततस्ततः ॥३॥ ततस्तान् राक्षसान सर्वान् हर्षयन् रावणात्मजः। स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ॥ ४॥ तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः। नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः॥५॥ धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै । अहं तु रथमास्थाय आगमिष्यामि संयुगम् ॥६॥ तथा भवन्तः कुर्वन्तु यथेमे काननौकसः । न युद्धयेयुर्दुरात्मानः प्रविष्टे नगरं मयि ॥७॥ इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः। प्रविवेश पुरीं लङ्का रथहेतोरमित्रहा ॥८॥ स रथं भूषयित्वा तुरुचिरं हेमभूषितम् । प्रासासिशतसम्पूर्ण युक्तं परमवाजिभिः ॥९॥ अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना। आरुरोह महातेजा रावणिः समितिञ्जयः ॥ १०॥ स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः। निर्ययौ नगरातूर्ण कृतान्तबलचोदितः ॥११॥ सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परवीरहा । अभ्ययाज्जवनैरश्वै । लक्ष्मणं सविभीषणम् ॥ १२ ॥ ततो रथस्थमालोक्य सौमित्री रावणात्मजम् । वानराश्च महावीर्या राक्षसश्च विभी षणः। विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः ॥ १३ ॥ ॥४॥५॥ धृष्टमिति । मोहनाय मनिर्गमनापरिज्ञानाय ॥६-८॥ स स्थमित्यादिश्लोकद्वयमेकान्वयम् । भूषयित्वा स्वतेजसा भूषयित्वा । आप्तोप देशिना हितोपदेशिना ।। ९-१२॥ तत इत्यादिसार्घश्लोक एकान्वयः। ततः तस्माद्युद्धप्रदेशात् ॥ १३-१७॥ निबर्हयन्तः मारयन्तः ॥३॥ स्तुवानः स्तुवन् ॥ ४ ॥ बहुलेन तमसा दिशा संसक्ताः संवृताः। एवं चास्माकं वलकरी रात्रिरागतेति भावः ॥ ५॥ धृष्टमिति । मोहनाय गमनापरिज्ञानाय ॥ ६ ॥ प्रविष्टे प्रवेष्टुमुपक्रान्ते, न युध्येयुः मम नगरप्रवेशविघातायै मया सह वानरा यथा सुद्धं न कुर्यः तथा भवन्तः कुर्वन्त्वि त्यर्थः॥ ७-९ ।। हयज्ञेन अश्वदयज्ञेन । आप्तं हितमुपदेष्टुं शीलमस्त्यस्य, तेन ॥ १-१६॥
For Private And Personal Use Only