________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म.
टा.यु.का.
R
साशोकद्वयमेकान्वयम् । संपूर्णायतमुक्तेन संपूर्णाकृष्टमुक्तेन ॥ ४०-४५॥ छिद्रेषु रन्ध्रेषु बाणेषु बाणप्रयोगेषु शीघ्रविक्रम इत्यन्वयः ॥१६॥ समरोद्ध युद्धगर्वम् ॥ ४७-४९॥ समहावीर्याः महावीर्यसहिताः ॥५०॥ रक्त शोणितम् ॥५१-५३॥ तत इति । पदातिनं पदाभ्यामापतन्तं
छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः । अर्दयामास बाणौर्विचरन्तमभीतवत् ॥४६॥ निहतं सारथिं दृष्ट्वा समरे रावणात्मजः । प्रजही समरोद्धर्ष विषण्णः सबभूव ह ॥४७॥ विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः। ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ॥४८॥ ततःप्रमाथी शरभो रभसो गन्धमादनः। अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ॥४९॥ ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः। चतुर्षु समहावीर्या निपेतुर्मीमविक्रमाः॥५०॥ तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः । मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत ॥५०॥ ते हया मथिता भना व्यसवो धरणीं मताः। ते निहत्य हयास्तस्य प्रमथ्यचमहारथम् ॥५२॥ पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः । स हताश्वादवप्लुत्य स्थान्मथितसारथेः । शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥५३॥ ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः । सृजन्तमाजौ निशितान शरोत्तमान् भृशं तदा बाणगणैर्यवारयत् ॥ ५४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवतितमः सर्गः ॥९॥
स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः । इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा ॥१॥
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् । विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥२॥ गच्छन्तम् । “अत सातत्यगमने" इत्यस्माणिनिः॥५४॥ इति श्रीगोविन्द श्रीरामा० रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवतितमः सर्गः॥१०॥ अथेन्द्रजिधः-स हताश्व इत्यादि ॥ १॥ विजयेनेति प्रयोजने तृतीया । विजयायेत्यर्थः । आभिनिष्कान्तो, बभूवतुरिति शेषः । गजवृषाविव गज समरोद्धर्ष समरोत्साहम् । प्रजही त्यक्तवान्॥४७-५४॥इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायो नवतितमः सर्गः॥२०॥ ॥१॥ताविति । विजयेन विजयहेतुना । अभिनिष्क्रान्तो अभिमुखमधावताम् ॥२॥
For Private And Personal Use Only