________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सहस्रांशी संवृतं तय दिशश्चैव बभूवुः शमी नाभूदित्यर्थः ॥ ३२ ॥ ताभ्यां तथा युद्ध,
मेनं निगृह्णाति अयं वा एनमिति निश्चयो नाभवदित्यर्थः । यद्वा रावणि लक्ष्मणो रावणिमापि लक्ष्मणं प्राप्य, अयुध्येतामिति शेषः । ताभ्यां तथा युद्ध कुर्वद्भयाम्, अन्योन्यविग्रहे परस्परप्रहारे क्रियमाणे उग्रा अव्यवस्था भवति, क्षणे क्षणे जयपराजयनियमो नाभूदित्यर्थः ॥ ३२॥ ३३ ॥ तैः पतद्भि
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः । दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कलाः ॥ ३४॥ तमसा संवृतं सर्व मासीद्धीमतरं महत् । अस्तं गते सहस्रांशी संवृतं तमसेव हि ॥ ३५ ॥ रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः । क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनम् ॥ ३६ ॥न तदानीं ववौ वायुर्न च जज्वाल पावकः। स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ॥ ३७॥ सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणेः ॥ ३८ ॥ अथ राक्षस सिंहस्य कृष्णान् कनकभूषणान् । शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥ ३९ ॥ ततोऽपरेण भल्लेन शितेन निशितेन च । सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ॥४०॥ महेन्द्राशनिकल्पेन सुतस्य विचरिष्यतः। स तेन बाणा शनिना तलशब्दानुनादिना ॥ ४१ ॥ लाघवादाघवः श्रीमान् शिरः कायादपाहरत् ॥ ४२॥ स यन्तरि महातेजा हते मन्दोदरीसुतः॥४३॥ स्वयं सारथ्यमकरोत् पुनश्च धनुरस्टशत् । तदद्भुतमभुत्तत्र सामर्थ्यं पश्या युधि
॥४४॥ हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः। धनुष्यथ पुनव्यंग्रे हयेषु मुमुचे शरान् ॥ १५॥ रित्यादिश्लोकद्वयमेकान्वयम् । शरशतैः निमित्तभूतैः। महत् अत्यन्तम् ॥ ३४ ॥ ३५ ॥ रुधिरौघति । चिक्षिपुः बकुः ।। ३६ ॥ न तदानीमित्यादि। अत्र युद्धस्थले पूर्व संप्राप्ताः गन्धर्वाः चारणेः सह संपेतुः, अन्यत्र गता इत्यर्थः । अतिधोरयुद्धदर्शनभयादिति भावः ॥ ३७-३९ ।। ततोऽपरेणेत्यादि तथा युद्धं कुर्षद्भवाम् अन्योन्यविप्रहे अन्योन्याभिभवे उमा अव्यवस्था भवति अभूत, अन्योन्यप्राप्ती अयमेनं निगृहाति अयं वा पनं निगृहातीति निधणे नाभव दित्यर्थः ॥ ३२-३९॥ तत इति । सम्पूर्णायतमुक्तेन संपूर्णाकृष्टमुक्तेन ॥४०॥ विचरिष्यतः रथसञ्चारं करिष्यतः । तलशब्दानुनादिना तलं ज्याघातवारणं तस्य ज्याघट्टनजो या शब्दर तस्यानुनादो यस्यास्ति तेन ॥ ४१-४४ ॥ हयेषु हयप्रेरणविषये । व्यग्रहस्तं, दृष्ट्वा तत्समय इति शेषः॥४५॥ ४६॥
For Private And Personal Use Only