________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२७३॥
वा.रा.भू. युद्धकथनात् किंचिद्विश्रमार्थे तस्य पृष्ठादवरूढो लक्ष्मण इत्यवगम्यते । सहस्रशः कदनमित्यन्वयः ॥ २६-२८ ॥ न ह्यादानमित्यादिश्लोकद्वयमेका अन्वयम् । आदानं वाणस्य तूणादुद्धरणम् । सन्धानम् उद्धृतस्य वाणस्य धनुष्यवस्थापनम् । धनुषो वा परिग्रहः सव्यापसव्यत्वेन कार्मुकग्रहणम् । बाणानां न ह्यादानं न सन्धानं धनुषो वा परिग्रहः । न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ॥ २९॥ न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् । अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥ ३० ॥ चापवेगविनिर्मुक्तबाणजालैः सम न्ततः । अन्तरिक्षे हि सञ्छन्ने न रूपाणि चकाशिरे ॥ ३१ ॥ लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् । अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ॥ ३२ ॥ ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः । निरन्तर मिवाकाशं बभूव तमसावृतम् ॥ ३३ ॥
विप्रमोक्षः विसर्जनम् । विकर्षः आकर्णग्रहणम् । विग्रहः आलीढाद्यवस्थानविशेषः, सावष्टम्भावस्थानं वा, धनुर्य्यादीनां प्रविभागो वा । “विग्रहः समरे काये विरोधप्रविभागयोः” इति विश्वः । मुष्टिप्रतिसन्धानं ज्याकार्मुकयोर्मुष्टिबन्धनम् । लक्ष्यप्रतिपादनं लक्ष्यप्रापणम्, लक्ष्यवेध इति यावत् ॥ २९ ॥ ३० ॥ चापवेगेति । रूप्यन्त इति रूपाणि वस्तुनि । वाणव्यतिरेकेण न किंचित्तदानीं दृश्यत इति भावः ॥ ३१ ॥ लक्ष्मण इति । लोकव्यवहारानुसारेणात्र क्रियाकारकसम्बन्धः । लक्ष्मणो रावणि रावणिश्चापि लक्ष्मणं प्राप्य ताभ्यामन्योन्यविग्रहे अन्योन्याभिभवे उम्रा अव्यवस्था भवति । अन्योन्यप्राप्तावय चन्द्रादित्याविव स्थितो महाबलों मेघेर्यथा मेघेरिव शरजालैः अभीक्ष्णम् अन्ततः अहदयौ बभूवतुः ||२८|| न ह्यादानमिति । धनुषो वा परिमद्दः सव्यापसव्येन कार्मुकग्रहणम् । विग्रहः आलीठाद्यवस्थानविशेषः । मुष्टेः प्रतिसन्धानं ज्याकार्मुकयोर्मुष्टिबन्धनम् । लक्ष्यप्रतिपादनं लक्ष्यवेधः ॥ २९ ॥ ३० ॥ चापवेगेति । रूप्यन्त इति रूपाणि बाणव्यतिरेकेण न किञ्चित्तदानीमदृश्यतेति भावः ॥ ३१ ॥ लक्ष्मण इति । लक्ष्मणश्च रावणि रावणिश्चापि लक्ष्मणं प्राप्य, अयुद्धपेतामिति शेषः
स० [क्ष्मणो रावणि प्राप्य रावणिरपि लक्ष्मणं प्राप्येत्येव स्थिताम्यां ताभ्याम् अन्योन्यविग्रहे युद्धे उमा दुःखकारणत्वात्कूरा अव्यवस्था इममिदानीं जेष्यामीति सङ्कल्पासिद्धिरूपा भवति अभूत् । एवं चोक्त | रीत्याऽव्यवस्थापा उपले सम्भवति सति उत्वस्य निरूपयितुमशक्यत्वात् इति नागोजितम् । उपत्वस्थ निरूपयितुमशक्यत्वादित्यनेनैव वैपलामे उप्रेति विशेषणवैयर्थ्यांचेति दूषणान्तर तथा कमनं स्वसङ्गततरमिति ज्ञेयम् ॥ ३२ ॥
For Private And Personal Use Only
टी.यु.का. स० ९०
॥ २७३॥