________________
Acharya Shri Kalassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तयोरिति । बभ्राजुः । माष परस्मैपदम् ॥४०-४२॥ इति श्रीगोविन्द श्रीरामायणभू० रत्नकिरी युद्धकाण्डव्याख्याने एकोननवतितमः सर्गः॥८॥ अथेन्द्रजितो स्थभङ्गः-युध्यमानो वित्यादिश्लोकद्वयमेकान्वयम् । प्रभित्री मत्तमातङ्गाविव परस्परगतो परस्परं युद्धार्थ सङ्गती तो लक्ष्मणेन्द्रजितो बाणजालैः शरीरस्थैरवगाडैस्तरस्विनौ । शुशुभाते महावीर्यो प्ररूढाविव पर्वतौ ॥३९ ॥ तयो रुधिरसिक्तानि संवृ तानि शरैर्भृशम् । बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥४०॥ तयोरथ महान कालो व्यत्ययाधुध्यमा नयोः। न च तो युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥ ४१ ॥ अथ समरपरिश्रम निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य । प्रियहितमुपपादयन् महौजाःसमरमुपेत्य विभीषणोऽवतस्थे ॥ ४२ ॥ इत्याचे श्रीरामायके वाल्मी कीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोननवतितमः सर्गः ॥८९ ॥
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ। प्रभिन्नाविव माती परस्परवधषिणौ ॥१॥ तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली। शूरःस रावणभ्राता तस्थौ सङ्घाममूर्धनि ॥२॥
ततो विस्फारयामास महद्धनुरवस्थितः । उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ॥३॥ प्रथमं दृष्टुकामः स विभीषणस्तौ दृष्ट्वा संग्राममूर्धनि योद्धं तस्थावित्यन्वयः। स्वयं प्रथम युद्ध कर्तुमुद्युक्तोऽपि तयोर्बलाधिक्यं द्रष्टुं तूष्णी स्थितः। तयो बैलतोल्ये दृष्टे स्वस्य रामविषयकिश्चित्कारार्थमिदानी युद्धाय तस्थावित्यर्थः ॥ १॥२॥ तत इति । धनुः तादात्विकं किंचित् । विभीषणस्य केवलगदा । प्ररूढौ रूढबक्षी ॥ ३९-४१॥ समरपरिश्रमम, इन्द्रजितमिति शेषः ॥ ४२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणनत्वदीपिकाख्यायां - युद्धकाण्ड व्याख्यायाम् एकोननवतितमः सर्गः । ८९॥ युद्धचमानावित्यादि श्लोकद्वयमेकं वाक्यम् । प्रभित्री मत्तौ । परस्परगतो परस्परं युद्धार्थ सङ्गती । लक्ष्मणेन्द्रणिती प्रथमं द्रष्टुकामः स विभीषणः तो दृष्ट्वा सझाममूर्धनि योर्बु तस्थावित्यर्थः ॥ १-३॥
For Private And Personal Use Only