________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पामादिकशघुपरिभवो न न्यूनतामापादयतीति भावः ॥३॥ रामानु-प्रमत्ताः अनवहिताः । विश्वस्ताः एको वानरः किं करिष्यतीत्यवक्षया विषयाः, अत एस वविताः । नदीति । जीवत इत्यनादरे षष्ठी ॥ ॥ सर्वामिति । स्पष्टम् ॥४॥ रामानु०-करोमि अचिरादेव करिष्यामि । " वर्तमानसामीप्ये वर्तमानबदा " इति भविष्यदर्थ लट् ॥ ४॥
सर्वा सागरपर्यन्तां सशैलवनकाननाम् । करोम्यवानरां भूमिमाज्ञापयतु मा भवान् ॥ ४॥ रक्षां चैव विधास्यामि वानराद्रजनीचर । नागमिष्यति ते दुःखं किञ्चिदात्मापराधजम् ॥५॥ अब्रवीत्तु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः । इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥६॥ अयं परिभवो भूयः पुरस्यान्तःपुरस्य च । श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् ॥७॥ अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् । प्रविष्टान् सागरं भीममम्बरं वा रसातलम् ॥८॥ ततोऽब्रवीत् सुसंकुद्धो वज्रदंष्ट्रो महाबलः। प्रगृह्य परिघं घोरं मांसशोणितरूषितम् ॥ ९॥ किं वो हनुमता कार्य कृपणेन तपस्विना । रामे तिष्ठति दुर्धर्षे ससुग्रीवे सलक्ष्मणे ॥१०॥ अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ ११॥ इदं ममापरं वाक्यं शृणु राजन् यदीच्छसि । उपाय कुशलो ह्येव जयेच्छचूनतन्द्रितः॥ १२॥ आत्मापराधः सीताहरणरूपो व्यतिक्रमः ॥५॥ हि यस्माद्वानरेण कृतमिदं कर्म सर्वेषां नः प्रधर्षणरूपम् । भूयः तदुपरि पुरस्यान्तःपुरस्य च परिभवरूपम् । अथ च राक्षसेन्द्रस्य प्रधर्षणरूपम् अतो न क्षमणीयमित्यर्थः॥ ६॥ ७ ॥ ततः किं करिष्यसीत्यत आह-अस्मिन्निति । स्पष्टम्
८॥ रामानु-निवर्तिष्यामि निवतिष्ये ॥ ८॥ तत इति । स्पष्टम् ॥९॥ कृपणेन गूठसञ्चारप्रकटितभयेन । तपस्विना शोच्येन ॥१०॥ रामानु-तपस्विना तपस्याहारभूतफलाशिनेत्यर्थः ॥ १० ॥ अयेति । स्पष्टम् ॥ ११॥ तद्वाक्यं किमित्याकासायामुपायप्रतिपादकं वाक्यं वक्तुमादावुपायं प्रशंसतिकरोमि करिष्यामि ॥ ४॥ आत्मापराधजं सीतापहरणरूपापराधजम् ॥५॥ इदमित्यादि सार्यश्लोकमेकं वाक्यम् । हि यस्मात वानरेण कृतमिदं प्रवर्षणं सर्वेषां ना प्रधणरूपं भूयस्तदुपरि पुरस्यान्तःपुरस्य च परिभवरूपम् अथ राक्षसेन्द्रप्रवर्षणमक्षववादिरूपम् अतोन क्षमणीयमित्यन्वयः ॥६-९॥किमिति । कृपणेन प्रकाश सधरणे भयात् गूढ रात्री कृतकार्येण । तपस्विना शोच्येन ॥१०॥ अद्य राममित्यस्य वास्तवार्थस्तु-लक्ष्मणं रामं विनेति शेषः । सुग्रीवं हत्वा आगमिष्यामीति
For Private And Personal Use Only