SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir द्विगुणसंरब्ध इति । लक्ष्मणादिविषयरोषापेक्षया विभीषणविषये द्विगुणं कुपित इत्यर्थः ॥ १४ ॥ तदृट्वेत्यादिसार्धश्लोक एकान्वयः । नैतत्किञ्चिदिति | ब्रुवन् एतदकिञ्चित्करमिति ब्रुवन्नित्यर्थः ॥ १५ ॥ अभीतवदन इत्यादिसार्धश्लोकद्वयमेकान्वयम् । अकिञ्चित्करत्वमेवाह नैवमिति ॥ १६-१९ ॥ तवेन्द्रजिता कर्म कृतं रामानुजस्तदा । अचिन्तयित्वा प्रहसन नैतत् किञ्चिदिति ब्रुवन् । मुमोच स शरान घोरान् संगृह्य नरपुङ्गवः ॥ १५ ॥ अभीतवदनः क्रुद्धो रावणि लक्ष्मणो युधि । नैवं रणगताः शूराः प्रहरन्ते निशाचर ॥ १६॥ लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव । नैवं शूरास्तु युध्यन्ते समरे जयकांक्षिणः ॥ १७ ॥ इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ॥ १८ ॥ तस्य वाणैः सुविध्वस्तं कवचं हेमभूषितम् । व्यशीर्यत रथोपस्थे ताराजाल मिवाम्बरात् ॥ १९ ॥ विधूतवर्मा नाराचैर्वभूव स कृतव्रणः । इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान् ॥ २० ॥ ततः शरसहस्रेण संक्रुद्धो रावणात्मजः । विभेद समरे वीरं लक्ष्मणं भीमविक्रमः ॥ २१ ॥ व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च । कृतप्रतिकृतान्योन्यं वभूवतुरभिद्रुतौ ॥ २२ ॥ अभीक्ष्णं निश्वसन्तौ तौ युद्धयेतां तुमुलं युधि । शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ २३ ॥ सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः । ततक्षतुर्महात्मानौ रणकर्मविशारदौ ॥ २४ ॥ बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ । तौ शरौघैस्तदा कीर्णो निकृत्तकवचध्वजो । स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥ २५ ॥ शरवर्षे ततो घोरं मुञ्चतोर्भीमनिस्वनम् । सासारयोरिवाकाशे नीलयोः कालमेवयोः ॥ २६ ॥ विधूतेति । प्ररूढः प्ररूढवृक्षः ॥ २० ॥ २१ ॥ व्यशीर्यतेति । कृते प्रतिकृतम् अन्योन्यं यस्मिन् कर्मणि तत्तथोक्तम् ॥ २२ ॥ युद्धयेताम् अयुद्धचे ताम् ॥ २३ ॥ सुदीर्घकालमिति । ततक्षतुः अन्योन्यं बभञ्जतुः ॥ २४ ॥ बभूवतुरित्यादि । यत्तौ यत्नवन्तौ ॥ २५ ॥ शरवर्षमित्यादिश्लोकद्वयमेका नैतत्किञ्चित्तदाऽब्रवीत् एतन्न किञ्चिदकिञ्चित्करमित्यब्रवीदित्यर्थः ॥ १५ ॥ अकिञ्चित्करत्वमेवाह-नैवमिति ॥ १६ ॥ एवंशब्दार्थो लघव इति । पुष्पमालावलघव इमे तब शरा मे सुखाः, न तु क्लेशदा इत्यर्थः ।। १७-१९ ।। मरुढ इष सानुमान सानुमानिव प्ररूढः निश्चलः बभूव ॥ २० ॥ २१ ॥ कृतप्रतिकृतान्योन्यं कृते For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy