________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भ.
॥२७०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैिवर्ण्यस्तब्धत्वादीनि निमित्तानि अनुपश्यामि, तैरयं भग्न इति जाने । तेन कारणेन त्वर स्वरस्व ॥ ४ ॥ ५ ॥ शक्राशनीति | सर्वसंक्षुभितेन्द्रियः संक्षु भितसर्वेन्द्रियः ॥ ६-८ ॥ किमिति । त्वं भ्रात्रा सह निबद्ध इति यत्, प्रथमे तद्युद्धे तस्मिन् युद्धे मत्पराक्रमं त्वन्निबन्धनरूपं न स्मरसि किम् ? यदा यत्र ततः सन्धाय सॊमित्रिबोणा॒नग्निशिखोपमान् । मुमोच निशितांस्तस्मिन सर्पानिव महाविषान् ॥५॥ शक्राशनि समस्पर्शेलक्ष्मणेनाहतः शरैः । मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ॥ ६ ॥ उपलभ्य मुहूर्तेन संज्ञां प्रत्यागते न्द्रियः । ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥ ७ ॥ सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः । अब्रवी चैनमासाद्य पुनः स परुषं वचः ॥ ८ ॥ किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् । निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्ट ॥ ९ ॥ युवां खलु महायुद्धे शक्राशनिसमैः शरैः । शायितौ प्रथमं भूमौ विसंज्ञौ सपुरस्सरौ ॥१०॥ स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् । गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ॥ ११ ॥ यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः । अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥ १२ ॥ इत्युक्त्वा सप्तभिर्वाणैरभि विव्याध लक्ष्मणम् । दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥ १३ ॥ ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् । क्रोधाद्दिगुण संरब्धो निर्विभेद विभीषणम् ॥ १४ ॥
युद्धकाले, विवेष्ट से विवेष्टितवानसि || ९|| तमेव पराक्रमं विशिनष्टि - युवामिति ॥ १० ॥ स्मृतिरिति । व्यक्तं नूनमित्यर्थः ॥ ११-१३॥ तत इति । क्रोधा यानि मुखवैवर्ण्यादीनि निमित्तान्यनुपश्यामि तैरयं भग्न इति जाने, तेन कारणेन त्वर स्वरस्वेत्यर्थः ॥ ४ ॥ ५ ॥ सर्वसंशुभितेन्द्रियः संक्षुभितसर्वेन्द्रियः ॥ ६-८ ॥ किमिति । प्रथमे तद्युद्धे खात्रा सह बद्ध इति यत् तत्पराक्रमं न स्मरसि किम् ? ॥ ९ ॥ तमेव पराक्रमं विशिनष्टि युवामिति । युवामिति श्लोकद्वयस्य प्रातीति कार्यः स्पष्टः । वस्तुतस्तु शरैर्युवां विसंज्ञौ भूमौ शायितौ तथापि ते तव यमसादनं वा यमलोकगमनं च स्मृतिर्वा भयरूपा स्मृतिश्च नास्तीति व्यक्तं मन्ये । कुतः ? यस्मान्मां धर्षयितुमिच्छसीति सम्बन्धः ॥ १०-१४ ॥
For Private And Personal Use Only
टी. यु. कॉ.
स० ८९
॥२७०॥