________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. ॥२६॥
स०८८
विशस्तेति । विशस्तं भिन्नं कवचं यस्य तं त्वां रामा द्रक्ष्यतीत्यनुपङ्गेग योजना ॥ २५ ॥ २६ ॥ अथ इदानीम् ॥२७३०॥ सुपचवागिता सुनिटा .यु.का.
अद्य गोमायुसङ्घाश्च श्येनसङ्खाश्च लक्ष्मण । गृधाश्च निपतन्तु त्वां मतासु मिहतं मया ॥२३ ॥ क्षत्रबन्धुं सदानार्य रामः परमदुर्मतिः। भक्तं भ्रातरमद्येव त्वां द्रक्ष्यति मया इतम् ॥ २४ ॥ विशस्तकवचं भूमौ व्यपविखशरासनम्। हृतोत्तमाङ्गं सौमित्रे वामद्य निहतं मया ॥ २५ ॥ इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् । हेतुमद्राक्यमत्यर्थ लक्ष्मणः प्रत्युवाच ह ॥२६॥ वाग्बलं त्यज दुर्बुद्धे क्रूरकर्माऽसि राक्षस । अथ कस्माददस्येतत् सम्पादय सुकर्मणा ॥२७॥ अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस । कुरुतत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ॥२८॥ अनुक्का परुषं वाक्यं किंचिदप्यनवाक्षिपन् । अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधम ॥२९॥ इत्युक्त्वा पञ्च नाराचानाकर्णा पूरितान शितान् । निजघान महावेगान लक्ष्मणो राक्षसोरसि ॥ ३० ॥ सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः। नैर्ऋतोरस्यभासन्त सवित् रश्मयो यथा ॥३१॥ स शरैराहतस्तेन सरोषो रावणात्मजः । सुप्रयुक्तैत्रिभिर्वाणैः
प्रतिविव्याधलक्ष्मणम् ॥३२॥ स बभूव तदा भीमो नरराक्षससिंहयोः। विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ॥३३॥ सातवेगाः ॥ ३१ ॥ ३२ ॥ स बभूवेति । विमर्दः सङ्घर्षः ॥ ३३ ॥ अशराः, अप्रयोजकशरा इत्यर्थः । ते तव शितधाराः जीवितान्तगाः पत्रिणः मत्तः जीवितमादास्पन्त इति सम्बन्धः ॥ २२ ॥ हे लक्ष्मण ! त्वां त्वामुद्दिश्य । मया लक्ष्म्या लङ्गेश्वर्येण सह गतासुम, मामिति शेषः । गोमाय्वादयः निपतन्त्विति सम्बन्धः ॥ २३ ॥ सदानार्यमित्यत्र सदान आर्यमिति छेदः ।हे सदान Intern दानसहित ! दानशीलेत्यर्थः । क्षत्रबन्धुं क्षत्रस्य राघवस्य बन्धुम् । कुतः भ्रातरम् अत एव आर्य मया अहतं त्वां परमदुतिः परमदुष्टेष्वपि मतिः अनुग्रहरूपा यस्य सः रामः, अद्य द्रक्ष्यतीति सम्बन्धः ॥ २४ ॥ विशस्तेति । हे सौमित्रे ! त्वां विनेति शेषः । विशस्तकवचं हतोत्तमानं मया निहतं, सैन्यं त्विति शेषः। रामो द्रक्ष्यतीति पूर्वेण सम्बन्धः ॥ २५-३० ॥ सुपत्रेति।सुपत्रवाजिताः सुषत्रैस्सन्नातवेगाः ॥३१॥ ३२ ॥ विमर्दः सर्गः ॥ ३३ ॥ ३४ ॥
For Private And Personal Use Only