________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
निर्वाहः । उक्तश्च उक्त एव, न कृतः। अतो दुर्बुद्धिरसीत्यर्थः । कस्तईि बुद्धिमानित्यत आह-कार्याणामिति । कार्याणां कर्मणा, आचरणेनेत्यर्थः ॥ १३॥ स त्वमिति । अर्थस्येति तादर्थ्यसंबन्धे षष्ठी । अर्थस्य वचः प्रयोजनार्थ वचः॥१४॥ दृष्टेऽप्यस्मत्पराक्रमे कथमित्यं कथ्यत इत्याशय ।। मायामयत्वान्न स वीरसंमत इत्याह-अन्तर्धानेति । आजो युद्धे ॥ १५॥ प्रत्यक्षेणापि योद्धं शक्तोऽस्मीत्यत आह-यथेति । यथा स्थितोऽस्मि तथैव,
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् । वचो व्याहृत्यजानीषे कृतार्थोऽस्मीति दुर्मते॥१४॥ अन्तर्धानगतेनाजौ यस्त्वयाऽऽचरितस्तदा । तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ १५ ॥ यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस । दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ॥ १६॥ एवमुक्तो धनुर्भीम परामृश्य महाबलः। ससर्ज निशितान बाणानिन्द्रजित् समितिञ्जयः ॥ १७॥ ते निसृष्टा महावेगाः शराः सर्पविषोपमाः । संप्राप्य लक्ष्मणं पेतुःश्वसन्त इव पन्नगाः ॥ १८॥ शरैरति महावेगैर्वेगवान रावणात्मजः । सौमित्रिमिन्द्रजियुद्धे विव्याध शुभ लक्षणम् ॥ १९॥ स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः। शुशुभे लक्ष्मणः श्रीमान विधूम इव पावकः ॥२०॥ इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च । विनद्य सुमहानादमिदं वचनमब्रवीत् ॥२३॥ पत्रिणः शितधारास्ते
शरामत्कार्मुकच्युताः । आदास्यन्तेऽद्य सौमित्र जीवितं जीवितान्तगाः ॥२२॥ तत्तेजः पूर्वकृतं तेजः दर्शयस्वेत्यन्वयः ॥ १६ ॥ १७॥ सर्पविषोपमाः सर्पविषवत् घोराः। पेतुः, भूमाविति शेषः॥१८॥ शरैरिति । अतिविव्याधे त्यन्वयः। “व्यवहिताश्च" इति व्यवहितप्रयोगः ॥ १९॥२०॥ अधिगम्य फलवत्त्वेन दृष्ट्वा ।। २१-२४ ॥ किमायातमिति भावः । यस्तु कार्याणां पारं कर्मणा आचरणेन गच्छति प्रामोति स बुद्धिमान् स एव समर्थ इत्यर्थः॥ १३॥ स त्वमिति । दुर्मते ! हीनाः शत्रुविजयरूपप्रयोजनहीनः स त्वं केनचित् केनापि दुरवाप्यस्यार्थस्य विजयप्रयोजनस्य सम्बन्धि वचो व्याहृत्य कृतार्थोऽस्मि कृतकृत्योऽस्मीति जानीप इति योजना ॥ १४ ॥ मत्कृतं पराक्रम सम्यगनुभूयापि किमर्थमेवमुच्यत इत्यत्राह-अन्तर्धानमतेनेति ॥ १५ ॥ विनाप्यन्तर्धानेन पराक्रमितुं शक्यमित्यत्राहयथेति । यथा यत्तेजः पूर्व कृतं तलेजः ॥ १६-२१॥ पत्रिणश्शितधारा इत्यादिश्लोकचतुष्टयस्य प्रकृतार्थः स्पष्टः । वास्तवास्तु-ई सोमिने। मत्काभुकच्युताषा
For Private And Personal Use Only