________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
रावणदोषानाह-धर्मादित्यादिना ।। २२ ॥ हिंसा च परस्वहरणं च ते हिंसापरस्वहरणे । हिंसादिरूपं दुपचाररूपं कर्म त्याज्यमाः ताकस्त्याज्य Mटी.यु.को. इत्यर्थः ॥ २३ ॥ परस्वानामिति । सुहृदामतिशङ्का सुहृत्स्वविश्वासः ॥२४ ॥ दोषवत्तया यदि त्याज्यत्वम्, तबभिजनविधादिगुणवत्तया किमिति स. न ग्राह्यत्वमित्यत आह-महर्षीणामिति सार्यश्लोकद्वयमेकान्वयम् । अभिमानः गर्वः। वैरित्वं बद्धवैरत्वम् । प्रतिकूलता परश्रेयोदेषित्त्वम् । तथा च । हिंसापरस्वहरणे परदाराभिमर्शनम् । त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ॥ २३ ॥ परस्वानां च हरणं परदाराभिमर्शनम् । सुहृदामतिशङ्का च त्रयो दोषाः क्षयाबहाः॥२४॥ महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः । अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ॥२५॥ एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः। गुणान प्रच्छादयामासुः पर्वतानिव तोयदाः। दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ॥ २६ ॥ नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥२७॥ अतिमानी च बालश्च दुर्विनीतश्च राक्षस । बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥२८॥
अद्य ते व्यसनं प्राप्त किं मां त्वमिह वक्ष्यसि । प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥२९॥ अभिजनविद्यादिगुणवत्त्वेऽपि परस्त्रीहरणादिदोषदूषिततया विषसंपृक्तमधुवन्न ग्राह्योऽयमिति भावः ॥ २५ ॥ २६ ॥ नेयमित्यादि । उत्तरक्षणे अवश्य नशिष्यतीत्यर्थः॥२७-२९॥
॥२६॥
निरस्यते हिंस्यते ॥ २१॥२२॥ हिंसा च परस्वहरणं च हिंसापरस्वहरणे । दुराचारं हिंसादिरूपदुराचारम् ॥ २३ ॥ इन्द्रजिदुक्तदोषपरिजिहीर्षया परित्यागहेतून रावण दोषानाह-परस्वानामित्यादिना । सहदामतिशहा चहत्स्वविश्वास इत्यर्थः ॥२४॥दोक्यत्तया यद्यपि त्याज्यत्वं तयभिजनविद्यादिगुणवत्तया किमिति ना ग्राह्यत्वमित्यत आह-महर्षीणामिति । अभिमानो गर्वः । वैरित्वं बद्धरित्वम् । प्रतिकूलता परश्रेयोद्वेषित्वम् । अभिजनविद्यादिगुणवत्त्वेऽपि परस्त्रीहरणादिदोषदूषित तया विषसम्पृक्तानवत्तस्य न ग्राह्यत्वमिति भावः ॥ २५-२९ ।।
For Private And Personal Use Only