________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीचत्वाभावान्न भवदुक्तदोष इत्यत्राह - गुणवानिति ॥ १५ ॥ तदेव वैषम्यं स्वरूपतो दर्शयति-य इति ॥ १६ ॥ निरनुक्रोशतेति । इयं होमविघात पूर्वकं लक्ष्मणस्य न्यग्रोधप्रवेशकरणरूपा निरनुक्रोशता निर्दयता, यादृशी यथा घोरा, तादृशं परुषं निर्दयत्वं स्वजनेन बन्धुभूतेन त्वयैव कर्तुं शक्यम्, | नान्येनेत्यर्थः । यद्वा स्वजने विषये त्वया न शक्यं न कर्तव्यम्, अनुचितं कृतमिति भावः ॥ १७ ॥ १८ ॥ गौरवात् गुरोर्भावो गौरवम्, पितृव्यत्वा यः स्वपक्ष परित्यज्य परपक्षं निषेवते । स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ॥ १६ ॥ निरनुक्रोशता चेयं यादृशी ते निशाचर । स्वजनेन त्वया शक्यं परुषं रावणानुज ॥ १७ ॥ इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ॥ १८ ॥ अजानन्निव मच्छीलं किं राक्षस विकत्थसे । राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ॥ १९ ॥ कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् । गुणोऽयं प्रथमो नृणां तन्मे शीलमराक्षसम् ॥ २० ॥ न रमे दारुणेनाहं न चाधर्मेण वै रमे । भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥ २१ ॥ धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् । त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥ २२ ॥
| दित्यर्थः ॥ १९ ॥ रक्षसां कुले यद्यप्यहं जातः, तत् तथापि मे शीलम् अराक्षसम् अक्रूरम् । अयं मे शीलाख्यो गुणः नृणां सत्पुरुषाणां प्रथमः मुख्यः ॥ २० ॥ तन्मे शीलमराक्षसमित्युक्तमेव दर्शयति-न रम इति । दारुणेन कर्मणा न रमे । अधर्मेण परपीडाकरेण च कर्मणा न रमे । न केवलं मय्येव दोषः रावणेऽपीत्याह - भ्रात्रेति । निरस्यते 'त्वां तु धिक्कुलपांसनम्' इति वचनेनेत्यर्थः ॥ २१ ॥ इन्द्रजिदुक्तस्वदोषपरिहाराय परित्यागहेतून
वैषम्यम्, गुणवत्वे तु तन्नास्तीत्यत्राह - गुणवान्वेति ॥ १५॥ तदेव वैषम्यं स्वरूपतो दर्शयति यस्स्वपक्षामिति । अतः स्वपक्षाश्रयणमेव श्रेयस्करमिति भावः ॥ १६ ॥ निरनुक्रोशतेति । सेयं होमविघातपूर्वकं लक्ष्मणस्य न्यग्रोधप्रवेशकरणरूपा निरनुक्रोशता निर्दयता यादृशी यथा घोरा ईदृशं परुषम्, निदर्शयेति शेषः । स्वज नेन बन्धुभूतेन त्वयैव कर्त्तुं शक्यम्, नान्येनेत्यर्थः । यद्वा स्वजने विषये त्वया न शक्यं न कर्तव्यम्, अनुचितं कृतमिति भावः ॥ १७ ॥ १८ ॥ गौरवात पितृव्य स्वात् । यद्वा शूरोऽहमिति गौरवाद्धेतोर्यत्पारुष्यं तत्यजेत्यर्थः ॥ १९ ॥ नृणां सज्जनानां यः प्रथमः मुख्यो गुणः सात्त्विकं तत् मे अराक्षसम् अक्रूरम् । शीलं गुण इत्यर्थः ॥ २० ॥ न रम इति । दारुणेन कर्मणा न रमे अधर्मेण च न रमे अन्यथा विषमशीलेन रावणशीलाद्विलक्षणशीलेन भ्रात्रा कथमयं भ्राता रावणो
२२२
For Private And Personal Use Only