________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. ॥२६॥
त्यर्थः ॥६-८॥ तमिति । महातेजा इति लक्ष्मणो विशेष्यः। तम्यम्युद्धम् अमायायुद्धम् ॥ ९॥ एवमिति । मनस्वी दृढमनस्कः॥१०॥ इतिटी .पु.का. इह लङ्कायां जातसंवृद्धः । “पूर्वकाल-" इत्यादिना पूर्वकालार्थवाचिनो जातशब्दस्य उत्तरकालार्थवाचिना संवृद्धशब्देन सह समासः। पुत्रस्य स.
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः। बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ॥ ७॥ स रथेनाग्निवर्णेन बलवान रावणात्मजः । इन्द्रजित् कवची धन्वी सध्वजः प्रत्यदृश्यत ॥८॥ तमुवाच महातेजाः पौलस्त्यमपरा जितम् । समाह्वयेत्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९ ॥ एवमुक्तो महातेजा मनस्वी रावणात्मजः । अब्रवीत् परुष वाक्यं तत्र दृष्ट्वा विभीषणम् ॥१०॥ इह त्वं जातसंवृद्धः साक्षाद्माता पितुर्मम । कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥११॥ न ज्ञातित्वं न सौहार्द न जातिस्तव दुर्मते । प्रमाणं न च सौदर्य न धर्मो धर्मदूषण ॥ १२॥ शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः। यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३ ॥ नैतच्छिथि लया बुद्ध्या त्वं वेत्सि महदन्तरम् । क्वच स्वजनसंवासः क्वच नीचपराश्रयः ॥ १४॥ गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा। निगुणः स्वजनः श्रेयान् यः परः पर एव सः॥ १५॥ पुत्राय । "क्रुधद्रुह-" इत्यादिना चतुर्थीनियमात् । राक्षसत्यनेन साजात्यमपि न दृष्टवानसीत्ति व्यज्यते ॥ ११॥ न ज्ञातित्वमिति । प्रमाणं मर्यादा नियामकम् ॥ १२॥ शोच्यत्वादौ हेतुमाह-यस्त्वमिति ॥१३॥ नैतदिति । शिथिलया कोमलया, तुच्छया वा। अन्तरं तारतम्बम् ॥१४॥ ननु परस्य नत्र न्यग्रोधमूले ॥ ७॥ ८॥ महातेजाः लक्ष्मणः ॥९-१०॥ इह अस्मिन राक्षसकुले जातः संवृद्धः तत्रैवोत्पत्रस्तवैव वृद्धि प्राप्त इत्यर्थः । पुत्रस्य पुत्राय ॥ ११ ॥ प्रमाणं मर्यादा ॥ १२ ॥ १३ ॥ शिथिलया तुच्छया । महदन्तरं महद्वैषम्यम् । स्वजनपरित्यागपरभूत्यत्वयोः महदैषम्यमस्तीत्यर्थः॥१४॥ परस्य नीचत्वे भवदुक्तं
२६६॥ स०-एकैक एव प्रयोजकः प्रीतावेतन्मन्येऽन्यत्र । ते सऽपि स्वव्यन्यथा जाता इत्याह-नासिबमियादिना । जातिः राक्षसजानिः । प्रमाणे ज्येष्ठ विरोवेन विरोन्याश्रयो न सम्पाय इति प्रवेदयत्प्रमाणम् । सौदर्य मोदरत्वम् । त्रयाणामपि फैकसीपुत्रत्वात् । न पगपुराणे "निकापुरमाइया निकषा चामवीद्रामम्" इत्युक्तेः भागवतोसरकाडादी केकसीपुरा कथितम्, तदसतमिति वाणम् तस्या एवं नामान्तरं तदिावा यविरोधः ॥ १२ ॥ टीका-निर्गुणोपि स्वजनः श्रेयान् भवति । परो यः सगुणोपि स पर ए३ । स्कुलेन सह बिरोधे मिन्न एव भवतीत्यर्थः ॥ १५ ॥
For Private And Personal Use Only