________________
www.kobatirth.org
She Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
प्रतियुध्यस्वेत्यन्वयः । ततः तदानी द्वन्द्वयुद्धकाले ॥ ३१ ॥ ३२॥ यः सः प्रतिद्धो य इत्यर्थः ॥३३ ॥ तमिति । अप्रतिमसंस्थानः अनुपम सन्निवेशैः, करवीरपत्राद्याकाररित्यर्थः ॥ ३४ ॥ इत्येवमिति । अरिविभीषणेन शउभयङ्करण ॥ ३५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे | रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडशीतितमः सर्गः ॥८६॥
हनुमन्तं जिघांसन्तं समुद्यतशरासनम् । रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२॥ यः स वासवनिर्जेता रावणस्यात्मसम्भवः । स एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३॥ तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः। जीवितान्तकरै|रैः सौमित्रे रावणिं जहि ॥३४॥ इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन । ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ ३५॥ इत्या. श्रीमद्युद्धकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥ एवमुक्त्वा तु सौमित्रिं जातहर्षी विभीषणः । धनुष्पाणिनमादाय त्वरमाणो जगाम ह॥१॥ अविदूरं ततो गत्वा प्रविश्य च महद्धनम् । दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥२॥ नीलजीसूतसङ्काशंन्यग्रोधं भीमदर्शनम् । तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥३॥ इहोपहारं भूतानां बलवान् रावणात्मजः । उपत्य ततः पश्चात् सङ्घाममभिवर्तते ॥४॥अदृश्यः सर्वभूतानां ततो भवति राक्षसः। निहन्ति समरे शत्रून् बधाति च
शरोत्तमैः॥५॥ तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम्। विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥६॥ अथेन्द्रजिद्विभीषणसंवादः-एवमुक्त्वेत्यादि । धनुष्पाणिनमिति नकारान्तत्वमार्षम् ॥ १ ॥ तत्कर्म होमकर्मस्थानम् ॥२॥३॥ इति । उपहारं बलिम् ।। उपहृत्य कृत्वा । ओदनपाकं पचतीतिवत् । ततः तस्मादेशात् ॥ ४॥५॥ अप्रविष्टन्यग्रोधं रावणात्मजं विध्वंसय । पुनः प्रवेशात्पूर्वमेव विध्वंसये. अप्रतिमसंस्थानः अनुपरित्यर्थः ॥ ४ ॥५५॥ इति श्रीमहेश्वर तीर्थविरचितार्था श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां पडशीतितमः सर्गः ॥८६॥ ॥१॥ अविदूरमिति । तत्कर्म होमस्थानम् ॥२-५ ॥ तमिति । अप्रविष्टन्यग्रोध रावणात्मजं विध्वंसय, न्यग्रोधमूलप्रवेशे दुस्साध्यो भवतीति भावः ॥ d
For Private And Personal Use Only