SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir राक्षसा इति । कपिसैन्यजिघांसवः कपिसैन्यं हन्तुमिच्छवः ॥ ८ ॥ स इति । संप्रहारः युद्धम् ॥ ९ ॥ १० ॥ ते सक्षसा इति । शस्त्रनिवेशना विकृताननबाहुत्वरूप क्रियाभेदात् तच्छन्दद्वयनिर्वाहः ।। ११-१३ ।। स्वमनीकमिति । तत्कर्मणि तस्मिन् होमकर्मणि ॥ १४ ॥ वृक्षान्धकारात राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । उद्यतैः समवर्तन्त कपिसैन्यजिघांसकः ॥ ८ ॥ स सम्प्रहारस्तुमुलः अज्ञे कपिरक्षसाम् | शब्देन महता लङ्कां नादयन् वै समन्ततः ॥ ९ ॥ शस्त्रैश्च बहुधाकारैः शितैर्वाणैश्च पादपैः । उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ १० ॥ ते राक्षसा वानरेषु विकृतानन्वाहवः । निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११॥ तथैव सकलैर्वृक्षैगिरिशृङ्गैश्व वानराः । अभिजघ्नुर्निजतुश्च समरे राक्षसर्षभानू ॥ १२ ॥ ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । रक्षसां वध्यमानानां महद्भयमजायत ॥ १३ ॥ स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥ वृक्षान्धकारान्निर्गत्य जातकोषः स रावणिः । आरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः ॥ १५ ॥ स भीमकार्मुकधरः कालमेघसमप्रभः । रक्तास्यनयनः क्रुद्धो मृत्युरिवान्तकः ॥ १६ ॥ दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्वलम् । रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥ तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम् । धरणीधरसङ्काशी महावृक्षमरिन्दमः ॥ १८ ॥ स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् । चकार बहुभिर्वृक्षैर्निस्संज्ञं युधि वानरः ॥ १९ ॥ नीरन्ध्रवृक्षपण्डादित्यर्थः । सज्जम् आयुधादिभिः पूर्वयुक्तं पूर्वमेव युक्ताश्वम् । सराक्षसः राक्षससहितः ॥ १५ ॥ अन्तकः अन्तकरः ॥ १६ ॥ पर्य वर्तत परितोऽतिष्ठत् ॥ १७ ॥ तस्मिन्नित्यादि । आदावेकं वृक्षमुद्यम्य निर्दहन् सन् पश्चात् बहुभिर्वृक्षेस्तद्रक्षोवलं निःसंज्ञं चकारेत्यन्वयः ॥ १८-२० ॥ शस्त्रेरिति । बहुध्मकारैः बहुप्रकारैः ॥ १० ॥ राक्षसाः वानरेषु शस्त्राणि निवेशयन्तः विकृताननबाहवस्सन्तः ते सुमहद्भयं चक्रुरिति सम्बन्धः । अतस्तद द्वयस्य न पौनरुतयम् ॥ ११-१३ ॥ स्वमनीकमिति । अननुष्ठिते असमाप्ते सति ॥ १४ ॥ वृक्षान्धकारात्रीरन्ध वृक्षसम्बाधात् ॥ १५-२७ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy