________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.पु.का.
॥२६॥
योग मायारूपोपायम्, तम् इन्द्रजितम्, विजेतुं प्राप्य तस्थौ । मायायागमिति पाठे मायायागं जेतुं नाशयितुं तं देशं प्राप्य तस्थावित्यन्वयः। An३४॥३५॥ विविघमिति । प्रतिभयतमम् अतिशयन भयङ्करम् ॥३६॥ इति श्रीगो श्रीरामा० रत्नकिरी० युद्धकाण्ड पञ्चाशीतितमः सर्गः ॥८॥
विविधममलशस्त्रभास्वरं तद ध्वजगहनं विपुलं महारथैश्च । प्रतिभयतममप्रमेयवेगं तिमिरमिक द्विषतां बलं विवेश ॥ ३६ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५॥ अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १॥ यदेतद्राक्षसानीकं मेघ श्यामं विलोक्यते । एतदायोध्यतां सीव्र कपिभिः पादपायुधैः॥२॥ अस्यानीकस्य महतो भेदने यत लक्ष्मण । राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥३॥ स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन परान् । अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ॥४॥ जहि वीर दुरात्मानं मायापरमधार्मिकम् । रावणि क्रूरकर्माणं सर्वलोकभया वहम् ॥५॥ विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः। ववर्ष शरवाणि राक्षसेन्द्रसुतं प्रति ॥६॥ऋक्षा शाखा
मृगाश्चापि द्रुमाद्रिनखयोधिनः । अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥७॥ अथेन्द्रजियुद्धारम्भः-अथ तस्यामित्यादि । तस्यामवस्थायां निकुम्भिलासमीपगमनावसरे । अर्थसाधकम्, स्वानामिति शेषः ॥१॥ यदेत दिति । आयोध्यतां हन्यताम् । शीघ्रमिति । विलम्बे यागः समाप्यतेति भावः ॥ २ ॥ अस्येति । यत यतस्व । अत्र राक्षसानीके ॥ ३-५॥ विभी पणेति । शुभलक्षणः सुवचनसारयाहित्वलक्षणयुक्तः ॥६॥७॥ प्रतिभयतमम अतिशयेन भयङ्करम् ॥ ३६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां पञ्चाशीतितमः सर्गः ॥८५॥ alu१॥ यदेतदिति । आयोध्यता प्रहार्यताम् ॥२॥ यत यतस्व ॥ ३ ॥ ४ ॥ मायापरमधार्मिक परमधार्मिकवत्प्रतीयमानम् ॥ ५॥ राक्षसेन्द्रसुतं प्रति ववर्ष
तमुहिश्य तत्सेनायां ववर्षेत्यर्थः ॥६-९॥ का सा-मायापरमधार्मिक मायया परमधनुर्धारिणं वा । मायापरम् अथामिकमिति वा ॥ १॥
| ॥२६॥
For Private And Personal Use Only