________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शेषः ॥२१-२७॥ स एवमिति । असत्यपि कर्तृभेदे किया भेदमाश्रित्य स इति द्विरुक्तिः । स एवमुक्त्वा स ययाविति निर्वाहः । वस्तुतस्तु सलक्ष्मणः । सः तादृशवीरवेषविशिष्ट एवेत्यर्थः । यद्वा सरावणिवधाकाङ्क्षीत्येकं पदम् । रावणिना सह वर्तन्त इति सरावणयः निकुम्भिलास्था राक्षसाः तेषां सन्नद्धः कवची खड्गी सशरो हेमचापधृत् । रामपादावुपस्ष्टश्य हृष्टः सौमित्रिरब्रवीत् ॥ २५ ॥ अद्य मुत्कार्मु कोन्मुक्ताः शरा निर्भिद्य रावणिम् । लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ २६ ॥ अद्यैवं तस्य रौद्रस्य शरीरं मामकाः शराः । विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥ २७ ॥ स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः । स रावणवधाकांक्षी लक्ष्मणस्त्वरितो ययौ ॥ २८ ॥ सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ २९ ॥ विभीषणेन सहितो राजपुत्रः प्रतापवान् । कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ ३० ॥ वानराणां सहस्रैस्तु हनुमान् बहुभिर्वृतः । विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ॥ ३१ ॥ महता हरिसैन्येन सवेगमभिसंवृतः । ऋक्षराजवलं चैव ददर्श पथि विष्ठितम् ॥ ३२ ॥ स गत्वा दूरमध्वानं सौमित्रिर्मिंत्रनन्दनः । राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमास्थितम् ॥ ३३ ॥ स तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः । तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ ३४ ॥ विभीषणेन सहितो राजपुत्रः
वीरेण तथाऽनिलसतेन च ॥ ३५ ॥
|वधाकांक्षीत्यर्थः ॥ २८-३३ ॥ स तं प्राप्येत्यादिश्लोकद्वयमेकान्वयम् । ब्रह्मविधानेन 'निकुम्भिलामसंप्राप्तम्' इत्यादिनोक्तब्रह्मवरदान प्रकारेण, माया स एवमुक्त्वेति। सलक्ष्मणः एवमुक्त्वा स एव लक्ष्मणः ययाविति तच्छन्दद्वयस्य निर्वाहः । एवमुक्त्वा तु वचनमिति पाठः सम्यक् ॥ २८-३३॥ स तमिति । सः रघुनन्दनः मायायोगं मायैव योग उपायो यस्य तमिन्द्रजितं प्राप्य ब्रह्मविधानेन 'निकुम्भिलामसं नाप्तम्' इत्यादिनोक्तब्रह्मवरदानप्रकारेण विजेतुं तस्थाविति सम्बन्धः ॥ ३४॥३५॥ कलको विमानेनेति पाठान्तरम् । ब्रह्मविमानेन ब्रह्मणो भगवतस्तेजोगोऽहमस्मीति विशिष्य जायमानेन ध्यानेन शत्रु जेतुं तस्थौ । सङ्कटकाळे तादृशध्यानस्य निसर्गसिद्धत्वात् ॥ ३४ ॥
For Private And Personal Use Only