________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥२६३ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| निकुम्भिलामसम्प्राप्तं निकुम्भिलाख्यन्यग्रोधमूलस्थानमसम्प्राप्तं च । “तमप्रविष्टन्यग्रोधम्" इत्युत्तरसर्गे वक्ष्यति । आततायिनं शस्त्रपाणिम्, रिपुवधोद्यतं चत्वां यो हन्यात् हिंस्यात्, सः इन्द्रशत्रोस्ते वधो मारक इति सर्वलोकेश्वरेण ब्रह्मणा वरो दत्त इति योजना । "वध हतौ " इति धातोः पचाद्यचि वध इति रूपम् । यद्यप्येतच्छा पवचनमिव प्रतिभाति, तथापि निकुम्भिलाप्राप्तिहोमयोर्विनाभावे अवध्य इति पर्यवसानाद्वररूपत्वं द्रष्टव्यम् ॥ १५ ॥ इत्येव इत्येवं विहितो राजन् वधस्तस्यैष धीमतः । वधायेन्द्रजितो राम सन्दिशस्व महाबल । हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् ॥ १६ ॥ विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ १७ ॥ जानामितस्य रौद्रस्य मायां सत्यपराक्रम । स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः । करोत्यसंज्ञान सङ्ग्रामे देवान सवरुणानपि ॥ १८ ॥ तस्यान्तरिक्षे चरतो रथस्थस्य महायशः । न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे ॥ १९ ॥ राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः । लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥ २० ॥ यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥ २१ ॥ जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः । जहि तं राक्षससुतं मायाबल विशारदम् ॥ २२ ॥ अयं त्वां सचिवैः सार्द्धं महात्मा रजनीचरः । अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ २३ ॥ राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः । जग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥ २४ ॥
| मित्यादिसार्धश्लोकं एकान्वयः । इत्येवंप्रकारेण । एषः होमविभकारी तस्य इन्द्रजितः वधः मारकः विहितः ब्रह्मणा कृप्तः । तस्मात् तस्य इन्द्रजितो विधाय सन्दिशस्य, अस्मासु कञ्चिदिति शेषः ॥१६ - १८ ॥ तस्य प्रसिद्धस्येति सूर्यविशेषणं द्वितीयं तस्येति पदम् । अभ्रसंप्लवे मेघावरणे ॥ १९ ॥ २० ॥ यद्वानरेन्द्रस्येत्यादि श्लोकत्रयमेकान्वयम् । जाम्बवेन जाम्बवता । सहसैन्येन सैन्यसहितेन । “वोपसर्जनस्य" इति विकल्पेन सभावाभावः । संवृत्तः, त्वमिति मित्यादि लोकद्वयमेकं वाक्यम् । अद्दृताग्निमसमाप्तहोमम् । निकुम्भिलां निकुम्भिलाख्यं न्यग्रोधमूलस्थानमसंप्राप्तम् आततायिनं शस्त्रपाणिं च इन्यात् हिंस्यात् इन्द्रशत्रोस्ते स एव वधः मारक इति वरः सर्वलोकेश्वरेण ब्रह्मणा दत्तः । राजन् ! धीमतस्तस्यैवं वधो विहित इति योजना । एवमुत्तर श्रीरामायणे इन्द्र जिद्वरप्रकारस्योक्तत्वात्तदानुगुण्येन व्याख्यातम् ॥१५- १८ ॥ तस्यान्तरिक्ष इति । अभ्रसंप्रवे मेघसमूहे ॥ १९-२७ ॥
For Private And Personal Use Only
टी.यु.कां.
स०८५
॥२६३॥