SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir कालकेयाः । तत्र कालकेयसकाशात् । बहवः बह्वयः। “वोतो गुणवचनात्" इति पक्षे ङीषभावः ॥ १०॥११॥ चतुर्विधवलानुगा रथगजतुरग । पदातिभेदेन चतुर्विधानि बलानि पृष्ठगानि येषां ते तथा ॥ १२॥ मृत्युदण्डेत्यादिश्लोकद्वयमेकान्वयम् । मृत्युदण्डः यमदण्डः स एव महाग्राहः महानक यस्मिन् । शाल्मलयः कण्टकशाल्मलिवृक्षाकारायुधविशेषाः त एव द्रुमाः तैर्मण्डितम् । मृत्युः यमः। प्रतिषेधितः युद्धादपक्रामितः ॥ १२॥१४॥ शूराश्च बलवन्तश्च वरुणस्य सुता रणे। निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ॥ १२॥ मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डितम् । कालपाशमहावीचिं यमकिङ्करपन्नगम्॥१३॥ अवगाह्य त्वया राजन् यमस्य बलसागरम् । जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः ॥ १४॥ सुयुद्धेन च ते सर्वे लोकास्तत्र विलोलिताः ॥ १५॥ क्षत्रिय बहुभिर्वीरैः शक्रतुल्यपराक्रमैः । आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ॥ १६ ॥ तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे। प्रसह्य ते त्वया राजन हताः परमदुर्जयाः॥ १७॥ तिष्ठ वा किं महाराज श्रमेण तव वानरान् । अयमेको महाबाहुरिन्द्रजित क्षपयिष्यति ॥ १८॥अनेन हि महाराज माहेश्वरमनुत्तमम् । इवा यह वरो लब्धो लोके परमदुर्लभः ॥ १९ ॥ शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम् । गजकच्छपसम्बाधमश्वमण्डूकसङ्कुलम् ॥२०॥ रुद्रादित्यमहाग्राहं मरुद्धसुमहोरगम् । स्थाश्वगजतोयौघं पदातिपुलिनं महत् ॥२१॥ सुयुद्धेनेत्यर्धम् । सुयुद्धेन स्वल्पयुद्धनेत्यर्थः । विलोलिताः द्राविताः॥ १५ ॥ क्षत्रियैः अनरण्यप्रभृतिभिः ॥ १६॥ तेषामिति । न समो राघव इति । तेभ्योऽपि निहीनबलः सुखेन निग्राह्य इति भावः॥ १७ ॥ तिष्ठ वेति । स्पष्टम् ॥ १८॥ माहेश्वरं महेश्वरप्रीतिकरम् ॥ १९ ॥ शक्तितोमरेत्यादिश्लोक ५ मृत्युदण्डेत्यादि श्लोकद्वयम् । शाल्मलिदुमभूषितं शाल्मलयः आयुधविशेषाः त एव द्रुमाः तेर्भूषितम् ॥१३-१८ ॥ माहेश्वर महेश्वरप्रीतिकरम् । इष्टा कृत्वा ॥१९॥ युद्ध सागरत्वेन निमपपति-शक्तितोमरेत्यादिना । विनिकीर्णानि व्याप्तानि ॥२०॥ महत महान्तम् ॥ २१ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy