________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा.रा.भ.
१२९॥
हननक्षमो गदाविशेषः। “परिघः परिघातनः" इत्यमरः। शक्तिः दीर्घयष्टिः । ऋष्टिः आसिः । “खड्ने तु निविंशचन्द्रहासासिऋष्टयः" इत्यमरः । शुलं प्रसिद्धम् । पट्टिशः खड्गविशेषः । तैः सङ्कुलं व्याप्त बलमस्ति । समग्रवले एवं विद्यमाने कस्माद्धेतोः भवान् विषादं भजत इति योजना। अत्र सुमहन्नो बलमित्यत्र बलं नास्तीति प्रामादिका भाव्यनर्थमूचिकाखिलोक्तिः ॥२॥ रामानु०-एवं रावणवचः श्रुत्वा अविदितरामवला राक्षसाः मुरासुरविदितं भवदीपचलं विस्मृत्य। मानुषमात्राच्छयोः किमर्थं शङ्कस इति प्रशंसापूर्वकं रावणं प्रोत्मादयन्ति-राजनित्यादिना ॥ २ ॥ तिष्ठतु सैन्यम्, त्वमेक एवं समस्तशत्रुविद्रावणक्षम इत्याशये
त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि ॥ ३॥ कैलासशिखरावासी यक्षैर्बहुभिरावृतः। सुमहत् कदनं कृत्वा वश्यस्तेधनदः कृतः॥४॥स महेश्वरसख्धन श्लाघमानस्त्वया विभो। निर्जितः समरेरोषाल्लोकपालो महाबलः ॥५॥ विनिहत्य च यक्षौघान विक्षोभ्य च विगृह्य च । त्वया कैलासशिखराद्विमानमिदमाहृतम् ॥६॥ मयेन दानवेन्द्रेण त्वद्भयात् सख्यमिच्छता। दुहिता तव भार्यार्थ दत्ता राक्षसपुङ्गव ॥७॥ दानवेन्द्रो मधुनाम वीयोसिक्तो दुरासदः। विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ॥ ८ ॥ निर्जितास्ते महाबाहो नागा गत्वा रसातलम् । वासुकि स्तक्षकः शङ्खो जटी च वशमाहृताः ॥ ९॥ अक्षया बलवन्तश्च शरालब्धवराः पुनः । त्वया संवत्सर युद्धा समरे दानवा विभो ॥१०॥ स्वबलं समुपाश्रित्य नीता वशमरिन्दम । मायाश्चाधिगतास्तत्र बहवो रक्षसाधिप ।
[निर्जिताः समरे रोषाल्लोकपाला महाबलाः । देवलोकमितो गत्वा शक्रश्चापि विनिर्जितः॥] ॥११॥ नाह-त्वयेत्यादिना । सार्घशोक एकान्वयः । भोगवती सर्पराजनगरीम् । कदनं युद्धम् ॥३॥४ स इति । स्पष्टम् ॥५॥ विमानं पुष्पकम् ॥६॥ दुहिता मन्दोदरी। यद्यपि मयेनाभिजात्यभ्रमादत्तेत्युत्तरे वक्ष्यति, तथाप्यत्र प्रशंसायां भयाइत्तेत्युक्तम् ॥ ७॥ दानवेन्द्रः मधुः । कुम्भीनसी रावण भगिनी । सुखमावहतीति सुखावहः, भर्ता ॥८॥ जटी सर्पविशेषस्य नाम । त्वया भोगवतीमित्यत्र तक्षकादिभित्रककोटकादिजयोक्तिरिति न पौन रुक्त्यम् ॥९॥अक्षया इत्यादिश्चोकद्वयमेकान्वयम् । लन्धवराः, ब्रह्मणेति शेषः। अक्षयाः चूर्णीकरणेऽपि पुनरुत्पत्तिमत्त्वेन क्षयरहिता इत्यर्थः । दानवाः ॥२२॥ शक्तवृष्टिशलपटिशसङ्खलं बलं नः, अस्तीति शेषः ॥ २-५ ॥ विमानं पुष्पकम् ॥ ६ ॥ दुहिता मन्दोदरी ॥७॥ कुम्भीनस्यास्तव स्वतः सुखावहः भर्ता ॥८॥ जटी नागविशेषः ॥९॥ अक्षया इत्यादि श्लोकद्वयम् । दानवाः कालकेयाः । तत्र तत्संवासान्भायाश्चाधिगता इति सम्बन्धः ॥ १०-१२॥
For Private And Personal Use Only