________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अतिशयेन कर्तव्यम् ॥ १५॥ गतं तु गतमेव, किं मन्त्रकरणे इतः किं नश्छिन्नमित्यत आह-वानराणामिति । अभ्यति अभ्येष्यति । "वर्तमानसामीप्ये वर्तमानवद्वा" इति वर्तमाननिर्देशः । उपरोधकः उपरोद्धम् । क्रियार्थायां कियायां बुल् ॥१६॥ सागरे विद्यमाने कथमस्मानुपरोत्स्यति । तत्राहवानराणां हि वीराणां सहस्त्रैः परिवारितः। रामोऽभ्येति पुरी लङ्कामस्माकमुपरोधकः॥१६॥ तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ॥ १७ ॥ तरसा युक्तरूपेण सानुजः सबलानुगः । समुद्रमुच्छोषयति वीर्येणान्यत् करोति वा ॥ १८॥ अस्मिन्नेवङ्गते कार्ये विरुद्ध वानरैः सह । हितं पुरे च सैन्ये च सर्व सम्मन्त्र्यतां मम ॥ १९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षष्ठः सर्गः ॥६॥ इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् । द्विषत्पक्षमविज्ञाय नीति बाह्यास्त्वबुद्धयः। [अविज्ञायात्मपक्षं च राजानं भीषयन्ति हि] ॥ १ ॥राजन परिघशक्त्यष्टिशूलपट्टिशसङ्कुलम् ।
सुमहन्नो बलं कस्माद्विषादं भजते भवान् ॥२॥ तरिष्यतीति सार्द्धश्लोकः । उच्छोषयति उच्छोषयिष्यति । अन्यत् सेतुबन्धादिकं वा करोति करिष्यति ॥ १७ ॥ १८॥ अस्मिन् लङ्कानिरोधनरूपे कायें । एवंगते उक्तरीत्या प्रवृत्ते । वानरैः सह विरुद्ध विरोधे च प्राप्ते । भावे निष्ठा । पुरादिषु हितं यत्तत्सर्वं संमन्त्र्यतामित्यर्थः॥ १९॥ इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षष्ठः सर्गः ॥६॥ I एवं रावणवचनमाकर्ण्य अविदितरघुनाथप्रभावा मदोद्धता राक्षसास्तद्वलवर्णन पूर्वकं रावणं प्रशंसन्ति-इत्युक्ता इत्यादिना । सार्घश्लोक एकान्वयः। विपत्पक्षं द्विषदलम् । “ पक्षो मासाधके पार्थे गृहे सूर्यविरोधयोः । केशादेः परितो वृन्दे बले सखिसहाययोः ॥" इति विश्वः ॥ १॥ परिषः परितो
मन्त्रस्य को विषय इत्याकाक्षायामाह-वानराणामिति । अभ्येति अचिरादेष्यति । टपरोधका उपरोद्धम् ॥ १६ ॥ तरसा बलेन युक्तरूपेण अत्यन्तमुचितेन सबलाई शानुगः बलोपेतानुचरसहितः॥ १७ ॥ सागरं कथं तरिष्यतीत्यत्राह-समुद्रमिति । उच्छोषयति उच्छोषयिष्यति । अन्यत सेतुबन्धादिकं करिष्यति ॥ १८ ॥ अस्मिन । लिङ्कानिरोधरूपे कार्य एवङ्गते मदुक्तरीत्या प्रवृत्ते वानरैः सह विरुद्धे विरोधे च प्राप्ते मम पुरादिषु हितं यत् तत्सर्व सम्मन्यतामित्यन्वयः ॥ १९॥ इति श्रीमहे
वरती० श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां षष्ठः सर्गः ॥६॥ इत्युक्ता इत्यादिसार्धश्लोकमेकं वाक्यम् । द्विषत्पक्ष द्विषद्बलम् ॥ १॥ परिष
For Private And Personal Use Only