________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
त्युपक्रम्य यः कार्यसुपेक्षेत उपेक्षेत न समानुयात् ॥ १० ॥ यथेति ! स्पष्टम् ॥ ११॥ उक्तत्रैविध्य मन्त्रेऽप्यतिदिशति-ऐकमत्यमिति । ऐकमत्यम्
टी.यु का एका मतिमुपागम्य । शास्त्रदृष्टेन स्वभ्यस्तशास्त्रेण । राजदन्तादित्वात्परनिपातः। तद्रूपेण चक्षुषा उपलक्षिताः मन्त्रिणः यत्र मन्त्रे निरताः तम् ॥ उत्तममन्त्रमाहुः ॥ १२ ॥ बह्वय इति । यत्र मन्त्रे । मन्त्रिणां मतयः बह्वयः बहुधा भूत्वापि अर्थनिर्णये अर्थनिर्णयरूपफलविषये एकता प्राप्ता भवन्ति यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः। एवं मन्त्रा हि विज्ञेया उत्तमाधममध्यमाः ॥११॥ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् ॥ १२ ॥ बह्वयोऽपि मतयो भूत्वा मन्त्रिणामर्थ निर्णये। पुनर्यत्रैकता प्राप्ताः स मन्त्री मध्यमः स्मृतः ॥ १३॥ अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते । न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥ १४॥ तस्मात् सुमन्त्रितं साधु भवन्तो मतिमत्तमाः । कार्य
सम्प्रतिपद्यन्तामेतत् कृत्यं मतं मम ॥ १५॥ स मन्त्री मध्यमः स्मृतः, नीतिरिति शेषः ॥ १३ ॥ यत्र मन्त्र । मन्त्रिभिः अन्योन्यं मतिं स्वा स्वां बुद्धिम् । आस्थाय प्रधानीकृत्य। संप्रतिभाष्यते व्यवाहियते । अनेनोत्तममन्त्रव्यावृत्तिरुक्ता । मध्यममन्त्रव्यावृत्त्यर्थमाह-न चोति । ऐकमत्येतेषां मन्त्रिणां श्रेयश्च प्रीतिश्च नास्ति, स मन्त्रोऽधम उच्यते ।
१४॥ सुमन्त्रितं सुनिश्चितम् । साधु समीचीनम् । कार्य संप्रतिपद्यन्ताम् ऐकमत्येन जानन्तु । एतत् ऐकमत्येन सुनिश्चितं कार्यम् । मम कृत्यम् व्यपाश्रयश्च त्यक्त्वा करिष्यामीत्युपक्रम्य यः कार्यमुपेक्षेत उपेक्षेत न समाप्नुयाद स नराधमः ॥१०॥ ११॥ शास्त्रदृष्टेन स्वदृष्टशास्त्रेण तदूपेण चक्षुषा उपलक्षिताः मन्त्रिणः ऐकमत्यम् एकमतित्वं प्राप्य यत्र मन्त्रे निरताः तं मन्त्रमुत्तममाहुरिति सम्बन्धः ॥ १२ ॥ बढ्योऽपीति । यत्र मन्ने मन्त्रिां मतयो बढ़चोऽपि बहुमार्गा|| भूत्वाऽपि पुनः पश्चादर्थनिर्णये अर्थनिश्चयरूपफले एकतामविरोध प्राताः स मध्यमः । बढ्योऽपि मतयो गत्वेति पाठे मन्त्रिणो गर्थनिर्णये इति पाठः । तदा यत्रा मन्त्र मन्त्रिणो बडयो मतयः बहीर्मतीर्गत्वा प्राप्य अर्थनिर्णये पुनरैकमत्यं प्राप्ताः स मध्यम इति सम्बन्धः ॥ १३ ॥ अन्योन्यमिति । यत्र मन्त्रे अन्योन्यं मति मास्थाय परस्परं भिन्नमतत्वं प्राप्य सम्प्रतिभाप्यते विरुखभाषणं क्रियते नचैकमत्ये श्रेयोऽस्ति ऐकमत्यविषयं यो नास्ति ऐकमत्यजनकप्रतिपादनं नास्तीति यावती स मन्त्रोऽधम इति योजना ॥ १४ ॥ उपसंहरति-तस्मादिति । तुमन्त्रितं यथा तथा भवन्तः कार्य संप्रतिपद्यन्ताम् एतन्मन्त्रणमेव कृत्यं मम मतमितिसम्बन्धः॥१५॥
For Private And Personal Use Only