________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चेत्यः प्रासादः नगरप्रधानभूतः प्रासादः । आविला दाहेन आकुला ॥३॥ अनन्तरं किं वा युक्तं यन्नः समर्थ हितम् । “समर्थस्त्रिषु शक्तिस्थे । सम्बन्धार्थे हितेऽपि च" इत्यमरः । यत् कृतम् अनुष्ठितम् । सुकृतं स्वनुष्ठितम् । भवेत्फलवद्भवेत्। तादृशं किम् उच्यतां करिष्यामि । वो भद्र मस्त्वित्यन्वयः॥ ४॥ बलवतस्तव किं मन्त्रेणेत्याशङ्कय सर्वेषामपि विजयस्य मन्त्रमूलत्वान्मयाऽपि मन्त्रः करणीय इत्याह-मन्त्रमूलमिति ॥५॥
प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः। आविला च पुरी लङ्का सर्वा हनुमता कृता ॥ ३ ॥ किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् । उच्यतां नः समर्थ यत् कृतं च सुकृतं भवेत् ॥४॥ मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः । तस्मादै रोचये मन्त्रं रामं प्रति महाबलाः॥५॥ त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः। तेषां तु समवेतानां गुणदोषौ वदाम्यहम् ॥ ६॥ मन्त्रिभिहितसंयुक्तैः समर्थेमन्त्रनिर्णये। मित्रैर्वापि समानार्थेन्धिवैरपि वा हितैः॥७॥ सहितोमन्त्रयित्वा यः कारम्भान् प्रवर्तयेत् । देवेच कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥८॥ एकोऽर्थ विमृशेदेको धर्मे प्रकुरुते मनः । एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ ९॥ गुणदोषावनिश्चित्य त्यक्त्वा धर्म
व्यपाश्रयम् । करिष्यामीति यः कार्यमुपेक्षेत् स नराधमः ॥१०॥ मन्त्रस्य करणीयत्वेऽपि स्वयमेव संमन्त्र्यताम्, किं बहुभिरित्याशय बहुभिः सह मन्त्रयितुरेवोत्तमत्वं वक्तुं प्रतिज्ञापूर्वकं क्रमेण मन्त्रयितृभेदानाहत्रिविधा इत्यादिना । समवेतानां सङ्कीर्णस्वरूपाणाम्, लक्षणज्ञानं विना विवेक्तुमशक्यानामित्यर्थः । गुणदोषौ उत्तमलक्षणं गुणम् । अधमलक्षणं दोषम् । मध्यमलक्षणं मिश्रणम् । ६॥ हितसंयुक्तैः हितपरैः। समानार्थैः समानसुखदुःखैः । कारम्भान आरम्भणीयकर्माणि । देवे देवसमाश्रयणे । कुरुते ॥७॥८॥ धर्मे पूर्वोक्तदैवसमाश्रयणे । मनः मनःपूर्व यत्नम् ॥ ९ ॥ गुणदोषौ हिताहिते । अनिश्चित्य देवव्यपाश्रयं त्यक्त्वा करिष्यामी आक्रान्तेत्यर्थः । वानरमात्रेण एकेन निरायुधेन चेत्यर्थः॥२॥३॥ किं करिष्यामीति । अनन्तरं किं वा युक्तम् अहम् यत् नः समर्थ हितं यत्कृतमनुष्ठितं साधु कतं स्वनष्ठितं भवेत् ताशं किम् उच्यता करिष्यामि वो भद्रमस्त्वित्यर्थः॥४॥५॥ विविधा इति । समवेताना सङ्कीर्णस्वरूपाणां लक्षणज्ञानं विना विवक्ता मशक्यानामित्यर्थः । गुणदोषी उत्तमलक्षणं गुणम् । अधमलक्षणं दोषम् । मध्यमलक्षणं मिश्रणम् ॥६॥ मन्त्रिभिरित्यादि। हितसंयुक्त हितपरैः। समानार्थः समान| सखदःखेः । कमरम्मान आरमरणीयकर्माणि ॥ ७॥८॥ एक इनि। धर्म प्रकरुते मन इत्यनेन देवाश्रयणमुक्तम् ॥९॥ गुणदोषौ हिताहिते अनिश्चित्य धर्म ।
141
For Private And Personal Use Only